पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०

पुटमेतत् सुपुष्टितम्
9
व्यवहारकाण्डः

 अपि च-- श्रीवीररुद्रो गजपतिरैरावण इव वृषारूढः, पुण्डरीक इव कपिलाऽऽयत्तदर्शनासक्तः; वामन इव पिङ्गळानुसरणच्छन्दस्स्फुरणः, कुमुद इव अनुपमैश्वर्यविश्रान्तिः, अञ्जन इव ताम्रपर्णीप्रभूतविलासविहारनिपुणः, पुष्पदन्त इव सुदती करपरिचयानुरक्तः,

 अपि च-- सार्वभौम इव सार्वभौमः, सुप्रतीक इव सुप्रतीकः, कुमार इव कुमारः, मार इव मारः, चतुरानन इव चतुराननः, विष्वक्सेन इव विष्वक्सेनः, रुद्र इव रुद्रः, कमलाकर इव कमलाकरो, नृसिंह इव नृसिंहः, राम इव रामः,

 अपि च-- नृसिंह इव करजाऽऽहित वीरलक्ष्मीकः, दाशरथिरिव जगदवननिपुणकरपल्लवः, परशुराम इव एकवीराऽऽकृतिधरो, हिमाचल इव कुलाचलो, वाराकर इव सत्वसमाविष्टो, हिमांशुरिव कुमुदोल्लासी, दिवाकर इव समुल्लसिततनुविभावो, निखिलहरिदन्तरजेगीयमानयशश्चन्द्रिकाप्रसरण हरशिरश्चन्द्रकरार्द्रीकरणो लोकाऽऽलोकोपभोगालोकायमाननिजप्रतापो दिक्करिसदृशो धिक्कृतवाक्पतिविभवः ।

 अपि च-- पुरुहूत इव वृद्धश्रवाश्श्राव्यघनकीर्तिरपि सहस्रनेत्रादृतोऽपि विष्णुरपि न दुश्च्यवनः किन्त्वति सुस्थितः, वीतिहोत्र इव जातवेदस्स्फरणोऽपि जगत्प्राणसखः, शुचिरपि नाऽऽश्रयाशः किन्तु आश्रितसंरक्षकः, धर्मराज इव समवर्त्यपि दण्डधरोऽपि वैवस्वतोऽपि न पितृपतिः अपि तु पितृसेवारतः निखिलभूमण्डलाधीश्वरः, वरुण इव प्रचेता अपि भुवनाधी

 S.VILASA.
2