पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४००

पुटमेतत् सुपुष्टितम्
369
व्यवहारकाण्डः

दानाध्ययनं) वा । अत्र च पितृद्रव्याविरोधेन यत्किञ्चित्स्वयमार्जितमिति सर्वशेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमार्जितं पितृद्रव्याविरोधेन यदौद्वाहिकं पितृद्रव्याविरोधेन यत्क्रमायातमुद्धृतं पितृद्रव्याविरोधेन विद्यया यल्लब्धमिति प्रत्येकमभिसंबध्यते । तथा च-- पितृद्रव्यविरोधेन प्रत्युपकारेण यन्मैत्रं पितृद्रव्याविरोधेन आसुरादिविवाहेन च यल्लब्धं तया पितृद्रव्यविरोधेन यत्क्रमायातमुद्धृतं तथा पितृद्रव्यव्ययलब्धया विद्यया यल्लब्धं तत्सर्वं सर्वैः भ्रातृभिर्विभजनीयम् । तथा पितृद्रव्याविरोधेनेत्यस्य सर्वशेषत्वादेव पितृद्रव्यविरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य सर्वशेषत्वाभावे मैत्रमौद्वाहिकमित्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्याविभज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोधो विद्यालब्धे नारदवचनविरोधश्च ।

कुटुम्बं बिभृयाद्भ्रातुः यो विद्यामधिगच्छतः ।
भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि सन् ॥

इति । पितृद्रव्याविरोधेनेत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धत्वाविभाज्यत्वमाचारविरुद्धमापद्यते । एतदेव स्पष्टीकृतं मनुना-- 'अनुपघ्नन् पितृद्रव्यं' इत्याद्युक्तं प्राक् । विद्याधनस्याविभाज्यत्वलक्षणं मुक्तं कात्यायनेन--

परभक्तोऽपयोगेन विद्या प्राप्ताऽन्यतस्तु या ।
तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥

परशब्दोऽत्र अविभक्तापेक्षया यद्व्यक्त्यन्तरं तत्र प्रयुज्यते । भक्तशद्बो द्रव्यमात्रोपलक्षकतया प्रयुक्तः । अतश्च पितृद्रव्याविरोधेनेत्यस्य सर्वशेषता युक्तेत्वनुसन्धेयम् । ननु पितृद्रव्याविरोधेन

 S.VILASA.
47