पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०१

पुटमेतत् सुपुष्टितम्
370
श्रीसरस्वतीविलासे

यन्मैत्रादिना लब्धं द्रव्यं तदविभाज्यमिति न वक्तव्यं । विभागप्राप्त्यभावात् । यद्येन लब्धं तत्तस्यैव स्वं नान्यस्यैति प्रसिद्धं । प्राप्तिपूर्वकश्च मतिषेधः; उच्यते--

समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः ।

इति प्राप्तस्यापवादः । अत्र हारीतः--

योगक्षेमं प्रचारान्न विभजेरन् ।

इति । अप्राप्तस्य प्राप्तिर्योगः । प्राप्तस्य रक्षणं क्षेमः । योगक्षेमशब्दार्थमाह लौगाक्षिः--

क्षेमं पूर्तं योगमिष्टमित्याहुः तत्त्वदर्शिनः ।
अविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥

इति । तदयमर्थः-- योगशब्देन अलब्धलाभकारणं श्रौतस्मार्ताग्न्यादिसाध्यमिष्टं कर्म लक्ष्यते । क्षेमशब्देन लब्धपरिपालनहेतुभूतं तटाकारमनिर्माणादि पूर्तं कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्यविरोधार्जितमप्यविभाज्यमिति । केचित्तु-- योगक्षमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते इत्याहुः । छत्रचामरशस्त्रवाहनप्रभृतय इत्यन्ये । प्रचारो-- गृहारामादिषु प्रवेशनिर्गमनमार्गः सोऽप्यविभाज्यः । नारदस्तु विशेषमाह--

मात्रा च स्वधनं दत्तं यस्मै तु प्रीतिपूर्वकम् ।
तस्याप्येष विधिर्दृष्टो मातापीष्टे पिता यथा ॥

स्वधन इति शेषः । एष विधिः-- अविभाज्यत्वविधिः पितृदत्तविषयोक्तः । यत्तूशनसा क्षेत्रस्याविभाज्यत्वमुक्तं--

अविभाज्यं सगोत्राणामासहस्रकुलादपि ।
याज्यं क्षेत्रं च पत्रं च कृतान्नमुदकं स्त्रियः ॥