पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०२

पुटमेतत् सुपुष्टितम्
371
व्यवहारकाण्डः

तद्ब्राह्मणोत्पन्नक्षत्रियापुत्रविषयं--

न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै ।
यद्यप्येषां पिता दद्यात् मृते विप्रासुतो हरेत् ॥

इति स्मरणादिति विज्ञानेश्वरासहायमेधातिथीनामियं व्याख्या । भारुच्यपरार्कचन्द्रिकाकारादीनां तु याजनसकाशादुत्पन्नो लाभो विभजनीयः । क्षेत्रं चाखिलदायादानुमत्या विभजनीयं ।

दायादैर्नाभ्यनुज्ञातं यत्किञ्चित् स्थावरे कृतम् ।
तत्सर्वमकृतं ज्ञेयं यद्येकोऽपि न मन्यते ॥

इति प्रजापतिस्मरणात्

कौले रिक्थविभागेऽपि न कश्चित्प्रभुतामियात् ।
भोग (योग्यस्तु) एव तु कर्तव्यो नदानं न च विक्रयः ॥

इति । कौले-- कुलक्रमागते स्वावरादौ न कश्चित्पित्रादिरपि रिक्थविभागे; अपिशब्दाद्विक्रयादौ प्रभुतामियात् । तत्र दायादानुमतिमन्तरेण न विभागविक्रयदानानि कुर्यादिति तस्यार्थ इति व्याख्यातवन्तः । यथोक्तं मनुना--

वस्त्रं पुष्पमलङ्कारं कृतान्नमुदकं स्त्रियः ।
योगक्षेमप्रचारं च न विभाज्यं प्रचक्षते ॥

इति । वस्त्रस्याविभाज्यत्वं धृतानामेव नान्येषां । धृतानां तु वस्त्राणां न विभाग इति शङ्खलिखितौ । पितृधृतानि तु पितुदूर्ध्वं विभजतां श्राद्धभोक्त्रे दातव्यानि । यथाऽह बृहस्पतिः--

वस्त्रालङ्कारशय्यादि पितुर्यद्वाहनादिकम् ।
गन्धमाल्यैस्समभ्यर्च्य श्राद्धभोक्त्रे तदर्पयेत् ॥

इति । अश्वादिवाहनानां बहुत्वे तद्विक्रयोपजीविनां विभाज्यत्वमेव । अलङ्कारोऽपि यो येन धृतः स तस्यैव । अधृते