पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०७

पुटमेतत् सुपुष्टितम्
376
श्रीसरस्वतीविलासे

कतिभिः पुत्रैः विभक्तः कतिभिरविभक्तः अविभक्तानामेव पित्रार्जितद्रव्यमुपरते पितरि विभाज्यं । पश्चादेतैर्विभक्तः पिता चेत्तद्द्रव्यं पूर्वविभक्तानां पश्चाद्विभक्तानां पुत्राणामेव विभाज्यं न पत्न्याः । पत्नीदुहितर इत्यादि स्वामिना संक्रमक्रमो न पितृविषयः; अपि तु भ्रात्रादिविषय इति पुरस्तान्निवेदयिष्यते । विभागसमये भ्रातृभार्यायां मातरि चा स्पष्टगर्भायां विभागादूर्ध्वं उत्पन्नस्य भागकल्पनमाह याज्ञवल्क्यः--

दृश्याद्वा तद्विभागस्यादायव्ययविशोधितात् ।

एतदुक्तं भवति-- प्रातिस्विकेषु भागेषु तदुत्पन्नमायं प्रवेश्य पितृकृतमृणमपनीय अवशिष्टेभ्यो भागेभ्यः किञ्चित्किञ्चिदुद्धृत्य विभक्तजस्य स्वभागसमः कर्तव्य इति । तद्विभागस्येति तस्य पितरि प्रेते भ्रातृविभागसमये अस्पष्टगर्भायां मातरि भ्रातृविभागोत्तरकालमुत्पन्नस्य विभागस्तद्विभाग इति विज्ञानेश्वरः प्राह । स्पष्टगर्भायां तु प्रसवं वीक्ष्य विभागः कर्तव्य इत्याह वसिष्ठः ।

 अथ भ्रातॄणां दायविभागो याश्चानपत्याः स्त्रियः तासा मापुत्रलाभात्' इति गृहीतगर्भाणामाप्रसवं प्रतीक्षणीयमिति योजनीयं । अवशिष्टं पूर्वमेवोक्तमिति नेह प्रपञ्च्यते । अयं च न्यायो देशान्तरगतस्यापि समान इत्याह बृहस्पतिः--

गोत्रसाधारणान् त्यक्त्वा योऽन्यदेशं समाश्रितः ।
अर्धशस्त्वागतस्यांशः प्रदातव्यो न संशयः ॥

गोत्रसाधारणान् त्यक्त्वा सर्वसहवासिनिवासदेशमुत्सृज्येत्यर्थः । अत्यन्तदीर्घकालप्रोषितस्य सद्भावाज्ञानतः कृतेऽपि विभागे तस्यापि भाग इत्याह स एव--

ऋणं लेख्य गृहं क्षेत्रं यस्य पैतामहं भवेत् ।