पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१

पुटमेतत् सुपुष्टितम्
10
श्रीसरस्वतीविलासे

श्वरोऽपि नव्यपाशोपि नोदकाऽऽसक्तः किन्तु निष्कल्मष जनानुरक्तः, श्वसन इव अनिलाकृतिरपि पुराणनेतृविभवोऽपि सदागतिरपि न भुजङ्गसहितः किन्तु दुष्टजनविनेता, किन्नरेश्वर इव राजाधिराजोऽपि धनदोऽपि[१]पदासक्तवरकच्छिलोऽपि न कुबेरः किन्तु सिंहसंहननः, शम्भुरिव महागजाधीश्वरोऽपि सर्वज्ञोऽपि न खण्डपरशुः किन्तु अप्रतिहतशस्त्रकलापः ।

 यस्य खलु रिपुराजकुञ्जरा विन्ध्याटवीमध्यमध्यासीनाः सिंहशरभशार्दूलगण्डकादिसमालोकनेऽपि न बिभ्यति किन्तु पताकिनीपताकाङ्कायितशरभशार्दूलगण्डभेरुण्डादिस्मरणजनितरणजनिततद्भ्रान्तिमन्तो भयविह्वलतया गह्वरान्तरेषु निलीयन्ते, स हि विचित्रम् वीररुद्रोऽपि पद्माश्लिष्टतनुः, समाश्रितजनहरिचन्दनोऽपि परिजनीकृतहरिचन्दनः, सुरभितरगुणगणैश्श्रीचन्दनोऽपि दासीकृतश्रीचन्दनः, स्वयं विद्याधरसदृशोऽपि किङ्करीकृतविद्याधरः, स्वयं पुरुषोत्तमोऽपि पुरुषोत्तमतनयः, स्वयं पुरुषोत्तमतनयोऽपि पुरुषोत्तमजनकः, स्वयं पुरुषोत्तमजनकोऽपि पुरुषोत्तमप्रियसेवकः,

 अपि च-- त्रिनेत्रकुमारसदृशोऽपि अत्रिनेत्रकुमारसदृशः, नलप्रतिमोऽप्यनलप्रतिमः, लङ्कारातिसुभगोऽप्यलङ्कारातिसुभगः, धरासक्तानुरागोऽप्यधरासक्तानुरागः, बलायत्तचित्तोऽप्यबलायत्तचित्तः, वनीपकरक्षणोऽप्यवनपिकरक्षणः ।

 अपि च-- वक्ता वक्तॄणां, श्रोता श्रोतॄणां, प्रबन्धा प्रबन्धॄणां, नेता सन्मार्गस्य, विनेताऽप्यसन्मार्गवर्तिनां, प्रणेताऽऽ



  1. सदा