पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१०

पुटमेतत् सुपुष्टितम्
379
व्यवहारकाण्डः

तथा च कात्यायनः--

विवाहकाले यत् स्त्रीभ्यो दीयते ह्याग्निसन्निधौ ।
तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत्पुनर्नयते नारी नीयमाना पितुर्गृहात् ।
अध्याहवनिकं नाम स्त्रीधनं परिकीर्तितम् ॥
प्रीत्या दत्तं च यत्किञ्चित् श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते ॥

पादवन्दनिकं-- पादवन्दनावसरे भ्रातृमातृपितृभ्यः प्राप्तं । यदा कदा वा जीवनार्थमिति शेषः । षड्विधं इत्यादि न्यूनसंख्याव्यवच्छेदार्थं; नाधिकसंख्याव्यवच्छेदाय । अत एवाह याज्ञवल्क्यः--

पितृमातृपतिभ्रार्तृदत्तमध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥

आधिवेदनिकं-- अधिवेदननिमित्तं 'अधिविन्नस्त्रियै दद्यात्' इति स्मृतेः । आद्यशब्देन रिक्थक्रयसंविभागपरिग्रहाधिगमप्राप्तमेतद्धनं । अपरमपि स्त्रीधनमाह स एव--

बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।

बन्धुभिः-- कन्याया मातृबन्धुभिः पितृबन्धुभिश्च यद्दत्तं । शुल्कं नाम यद्गृहीत्वा कन्या दीयते तच्छुल्कमिति विज्ञानेशः । चन्द्रिकाकारस्तु--

गृहोपस्करवाह्यानां दोह्याभरणकर्मणाम् ।
मूल्यं लब्धं च यत्किञ्चिच्छुल्कं तत्परिकीर्तितम् ॥

इति । गृहोपस्करादीनां मूल्यं लब्धं कन्यागतत्वेन वरादिसकाशात् कन्यार्पणोपाधितयेति शेषः इति । अन्वाधेयं