पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१२

पुटमेतत् सुपुष्टितम्
381
व्यवहारकाण्डः

भोक्त्र्येतत्स्वयमेवेदं पतिर्नार्हत्यनापदि ॥
वृथा मोक्षे च भोगे च स्त्रियै दद्यात्सवृद्धिकम् ।

इति । वृत्तिर्वर्तनार्थं पित्रादिना दत्तं । शुल्कं कथितं । लभ्यत इति लाभः । एतदुक्तं भवति-- गौरीव्रताद्यर्थं स्त्रिया यल्लल्यते तदपि स्त्रीधनमिति । यद्वा लाभो-- वृद्धिः पूर्वोक्तस्त्रीधनं परिकल्पितवृद्धिमूलत्वेन व्यवह्रियते । सा च वृद्धिर्लाभशब्देनोच्यते । यद्यपि प्रयुक्तधनस्वामिन एव कल्पिता वृद्धिः; तथाऽपि धनप्रयोगे स्त्रीणामनधिकारात्पत्युरेव तदधिकारात् तथा शङ्का माभूदित्युपदिष्टं । स्वयमेवेत्येवकारोऽपत्यादीनां व्युदासार्थः । वृथा-- आपदं विनेत्यर्थः । मोक्षस्त्यागः । अपदं विनेति वदन् अपदि तु पतिरेव स्त्रीधनं भोक्तुमर्हति नान्य इति दर्शयति । आपन्नाम कुटुम्बभरणार्थे द्रव्याभावः । तथा च याज्ञवल्क्यः--

दुर्भिक्षे धर्मकार्ये च व्याधौ सप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ॥

धर्मकार्ये-- नित्ये नैमित्तिके काम्ये च; क्वचिच्छान्तिके ग्रहयज्ञादौ । प्रतिरोधके-- धनदानं विना निवारयितुमशक्यधनिका द्यासेधादाविति चन्द्रिकाकारः । वन्दीग्रहणविग्रहादौ द्रव्यान्तराभाव इति विज्ञानेशः । अत्र मनुः विशेषमाह--

यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः ।
मातामह्या धनात् किञ्चित्प्रदेयं प्रीतिपूर्वकम् ॥

इति । यथार्हतः-- शीलोपयोगदारिद्र्यापेक्षयेत्यर्थः । तासां-- भगिनीनां दुहितर इत्यर्थः । ननु भगिनीदुहितॄणां भ्रातृभगिनी सद्भावे मातामहीधने स्वामित्वाभावात्किमिति किञ्चित्प्रदीयत इति । सत्यं; प्रीतिपूर्वकं इत्युक्तत्वान्न दोषः । यथा पैतृके धने