पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१३

पुटमेतत् सुपुष्टितम्
382
श्रीसरस्वतीविलासे

कन्यानां दायार्हत्वाभावेऽपि वचनबलात् 'पतितास्स्युरदित्सव' इति निन्दास्मरणाच्च संस्कारोपयोगि प्रतिष्ठोपयोगि च द्रव्यं देयमिति प्रतीयते तथेहापीत्यर्थः । विष्णुस्तु विशेषमाह-- 'यौतकं मातुः कुमारीदाय एवेति' न सहोदराणामिति शेषः । यौतकमन्योन्यान्वितयोः वधूवरयोर्देयं यत्तद्धनं । युतयोरिति व्युत्पत्त्या यौतकं । गौतमस्तु विशेषमाह-- 'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां चेति' सौदायिकादि स्त्रीधनं कुमारीणामप्रतिष्ठितानामनूढानां च दुहितॄणां स्वं भवतीत्यर्थः । अतश्च तद्धनं ताविव दुहितरो गृह्णीयुर्यथांऽशमित्यभिप्रायः । इयमपरार्कानुसाराद्गौतमवचनव्याख्या । विज्ञानेश्वरानुसारेण तु पूर्वमेव व्याख्यातं । भार्याया ऊर्ध्वं कन्याऽभावे भर्तुः भार्यारिक्थं भवेत् । तथा चाह याज्ञवल्क्यः--

अप्रजस्त्रीधनं भर्तुः ब्राह्मादिषु चतुर्ष्वपि ।
दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥

अस्यार्थः-- अप्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदेवार्षप्राजापत्येषु चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तं सौदायिकं धनं भर्तुर्भवति । तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेषु आसुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तत्-- अप्रजस्त्रीधनं पितृगामि-- माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनिर्दिष्टाया अपि मातुः प्राधान्यात्प्रथमं धनग्रहणं । पिता मात्रेत्येकशेषे मातुरेव प्राधान्यात् । तदभावे तत्प्रत्यासन्नानां धनग्रहणं । सर्वेष्वेव विवाहेषु प्रसूता अपत्यवती स्त्री चेद्दुहितॄणां तद्धनं भवति । अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाद्दुहितॄणां 'मातुर्दुहितरश्शेषम्'