पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२

पुटमेतत् सुपुष्टितम्
11
व्यवहारकाण्डः

ख्यायिकानां, अभिनेता नाटिकानां, अपनेता दुष्कृतानां, निर्णेता धर्मसन्देहस्य, परिणेता पद्मापद्मालयेळामहिळामहिळानां, अधिनेता सकलोर्वीचक्रवाळस्य,

 अपि च प्रतिरूपकं विवस्वतः, वीप्सा मनुवैन्ययोः, अध्याहार इक्ष्वाकोः, समस्याः दिलीपस्य, संवादो रघोः, पणबन्धो रघुकुमारस्य, प्रतिनिधिः पङ्क्तिरथस्य, विग्रहान्तरं रामभद्रस्य, सकलजनतानन्दनजनार्दनो गौडेन्द्रमानमर्दनो विजयसुरभिसुरभितरसमधिकोदारो वीरकेदारः सञ्चरणकुलशैलभ्रमजनकमदवारणधिक्कृतदिक्कुञ्जरः, शरणागतहुशनशाहिसुरत्राणवज्रपञ्जरो, राजाधिराजपरमेश्वरः प्रतापरुद्रो गजपतिर्नाम.

 अत्र वर्णयितृवर्ण्ययोरभेदैकनियतयोरपि अवस्थाभेदेन भेदकथनं एकस्यैव कवेः कविसहृदयत्ववत् न विरुध्यते । स चायं वीररुद्रो गजपतिरयोध्यामिवायोध्यां, मधुरामिव मधुरां, द्वारावतीमिव द्वारावतीं अवन्तीमिवावन्तीं, मायामिव मायां, वारणासिकामिव वारणासिकां, अपि च काशीमिव विश्वेश्वराधिष्ठिताम् अयोध्यामिव इक्ष्वाकुसन्मार्गो, काञ्चीमिव कामकोटिपुण्यकोटिसमेतां, मधुरामिवोग्रसेनापरिपालितां, द्वारवतीमिवानकदुन्दुभिघोषसमेतां, महानदीजलमध्यमध्यासीनां, अमरनदीप्रतिबिम्बमिव भूकान्ताकटिकङ्कटकनगरीं, पद्मापद्मालयेळामहिळाभिस्समं सम्मानयन् प्रतिदिवसनियतराजकनियतव्यवहाररूपधर्माचरणमाचरन् यथाविहितसभामण्डपान्तरे सभ्यप्राड्विवाकामासपुरोहितज्योतिर्विदादिभिः सहितः विज्ञानयोगिभारुच्यपरार्कमेधातिथ्यसहायचन्द्रिकादि बहुग्रन्थैः