भागित्वमुक्तं वसिष्ठेन--
'कस्मिंश्चित्प्रतिगृहीते औरस उत्पद्येत चतुर्थांशभागी स्याद्दत्तकः' ।
इति । दत्तकग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थं । पुत्री करणा विशेषात् । तथा च कात्यायनः--
उत्पन्ने त्वौरसे पुत्रे चतुर्थांशहरास्सुताः ।
असवर्णास्सवर्णासु ग्रासाच्छादनभाजनाः ॥
इति । असवर्णाः-- क्षेत्रजदत्तकादयः । ते चौरसे सति चतुर्थांशहराः । चतुर्थांशो नाम चतुर्थस्य योंऽशः समत्वेन परिकल्प्यते तत्तुल्योऽशः-- पञ्चमांश इत्यर्थः ।
पञ्चमांशहरा दत्तकृत्रिमादिसुताः पुनः ।
इति स्मृतेः । पूनरिति-- पश्चादुत्पन्ने औरस इत्यर्थः । असवर्णाः-- कानीनगूढोत्पन्नसहोढपौनर्भवाः । तेषां यद्यपि सवर्णत्वादिनिश्चये कानीनत्वादिव्यपदेशः; तथाऽपि सन्दिग्धेऽपि सवर्णत्वेऽसवर्णत्वव्यपदेशः । यदपि मनुनोक्तम्--
एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणामानृशंस्यात्तु प्रदद्यात्तु प्रजीवनम् ॥
इति । तदपि दत्तकादीनां औरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यमिति विज्ञानेशः । सोमेश्वरस्तु-- दत्तादिव्यतिरिक्तानां कानीनगूढोत्पन्नमहोढपौनर्भवानामेव जीवनदानमिति शेषशब्दार्थ इत्याह । भारुचिस्तु-- 'एक एवौरसः पुत्रः' इत्यादि वचनात् एकपुत्रविषये दत्तादिस्वीकारोऽस्ति; तथा च दत्तपुत्रादिस्वीकारात्पूर्वं स्थितस्य पुत्रस्य दत्तादीनां प्रजीवनप्रदानं नान्ये