पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२८

पुटमेतत् सुपुष्टितम्
397
व्यवहारकाण्डः

कश्चिदतिशयोऽर्जनजन्मा साध्यते । स चौदासीन्यप्रच्युतिरूपत्वात् सम्बन्धरूप इति गीयते । ग्रामं त्यजतीत्यादावपि ग्रामतोऽतिशयो विभागरूपः क्रियागर्भोऽतिशयोऽस्त्येव । न च प्रतिग्रहादिजन्यो हस्तसंयोगादिरेव अतिशयोऽस्त्विति वाच्यं । व्यभिचारात् । जन्मादौ तदसंभवात् । न चाकर्मकत्वाज्जनिक्रियायां कर्मगतातिशयजनकत्वमिति वाच्यं । अर्जयति शब्दवाच्यत्वदशायां सकर्मकत्वात् । अयं भावः-- जनिधातुः कर्तृगतक्रियार्थस्स्यात् । प्रागसतः क्रियाश्रयत्वायोगात् । लब्धसत्ताकस्य पुनर्जननाभावात् । अतो जनयितृक्रियायोगं जन्यस्य स्वातन्त्र्यविवक्षया जनिधातृराहेतिगुरुमततत्वं । यथैकमेव ज्ञानं घटो भातीत्यत्राकर्मकं घटं जानीहीत्यत्र सकर्मकं । गुरुमते वित्तिभावोरभेदः। यथोक्तं गुरुणा-- 'धीरेव हि भानमिति' स चार्जनजन्योऽतिशयः स्वत्वमित्युच्य इति मीमांसकरहस्यं । अतश्चोद्गन्थता स्फुटैव । स्थूलत्वं च धनलाभशिष्योपास्त्यादिसाधने आचार्यनियोगे पशुवृष्ट्यादिसाधने चित्राकारीर्यादिनियोगे च व्यभिचारात् । न च यथाहवनीये लौकिकज्वलनरूपणे लौकिकपाकसाधनता नालौकिकसंस्कारनिचययुक्तरूपेणेत्यनैकान्तिकतापरिहारस्सुवचः तथाऽपूर्वेऽप्यनैकान्तिकतापत्तिपरिहारस्सुवच इति वाच्यं । तस्मिन् सर्वात्मनैवालौकिकेऽपूर्वे लौकिकालौकिकरूपभेदकल्पनस्याशक्यत्वात् । यत्तून्नीतं चित्रापूर्वकार्यतया शास्त्रैकसमधिगम्यं । न च तद्रूपेण पश्वादिसाधनं अपि तु कृतं सत् सिद्धतया; न च तद्रूपं शास्त्रैकसमधिगम्यं कार्यकारणानुमानवेद्यत्वात्; अतो यूपाहवनीयादितुल्यतया नानैकान्तिकतेति प्रतिपादयितुं शक्यत इति । तदसत्; यूपाहवनीयादौ लौकिके रूपे नियमवैय-