पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३०

पुटमेतत् सुपुष्टितम्
399
व्यवहारकाण्डः

'क्रिययोगश्शब्दार्थ' इति भाति । तथाऽपि न तस्याः क्रियामात्रपरत्वं । तथात्वे लक्षणान्व्याख्यानमात्रपरत्वं स्यात् । न चैतत्संभवति संशयनिवृत्त्यर्थं 'उपनयि तु यश्शिष्यं द्विजोऽध्यापयति श्रुतम्' इति लक्षणमवक्ष्यत्। तदनुपयोगिनी विध्युक्तिरयुक्ता सती वक्तुरनाप्ततामापादयेत । विधेयस्यैव तु लक्षणत्वे विवक्षिते विध्युक्तिरांजसीति विधिसिद्धमेवाध्यापनरूपमर्धं यस्त्वित्यादिना निर्दिश्य लक्षणं कृतमुपेयं । न च वाक्यभेदापत्तेरुभयविवक्षानुपपत्तिः । वक्तृतन्त्रे वाक्ये वाक्यभेदस्य चोदनासूत्रे अर्थपदं प्रयुञ्जानेन सूत्रकारेण दोषतया ख्यापितत्वात् । तुशब्द उपाध्यायलक्षणात् केवलाध्यापनाद्व्यावृत्तिप्रतिपादकः । नन्वध्यापनस्य विधेयत्वमेव नास्ति अन्यतः प्राप्तत्वादिति चेन्मैवं, अन्यतः प्राप्तिवादी प्रप्तव्यः । किमध्ययनविधितः प्राप्तिराहोस्विद्वृत्तित इति । नाद्यः अध्ययनविधेर्निरधिकारतया स्वविषयानुष्ठानेऽप्यशक्तत्वमुक्तं शास्त्रादौ गुरुणा तत्तत एवावधार्यं । न द्वितीयः वृत्त्यर्थताऽप्यध्यापनस्याचार्यकद्वारिकैवेति नाचार्यकोत्पत्त्यर्थतया तद्विधिं विहन्तीति तेनान्यतः प्राप्त्यभावाद्विध्यभावेऽध्यापनस्याप्राप्तस्य लक्षणत्वेनाख्यानमयुक्तमित्यध्यापनस्य विधेयत्वसिद्धेः । यद्वा स्मृतेश्च लोकव्यवहारमात्रफलानर्हत्वादाचार्यपदार्थनिर्णयापेक्षवरदानविध्यनुष्ठानफलतैवोपेया । तत्र 'अचार्याय वरो देय' इति श्रौते वरदानविधौ आचार्यशब्दार्थः सम्प्रदानतयोपदिश्यते । नच सम्प्रदानावस्थायामध्यापनक्रियायोग आचार्यशब्दार्थः । तस्यातीतत्वात् । नच स्वरूपमात्रमर्थः ; तस्य विधिं विनाऽपि लाभे विध्यानर्थक्यात् । नच भूतपूर्वक्रिया योगावस्थालक्षणा श्रुतिस्मृतिप्रयुक्ता। आचार्यपदार्थतत्वनिर्णयार्थं