पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३१

पुटमेतत् सुपुष्टितम्
400
श्रीसरस्वतीविलासे

प्रयुक्ताया अभियुक्तश्रुतेर्जघन्यार्थप्रकाशनपरत्वस्वीकारस्यानुचितत्वात् । अनवगतस्य च तदुपलक्ष्यत्वानर्हत्वात् । पञ्जरस्थस्सिंह इत्यत्र पञ्जरोपलक्ष्यसिंहत्वाकारवदिह भूतक्रियायोगोपलक्षणस्याकारविशेषस्याभावात् । अतः कियायोगातिरिक्त सम्प्रदानावस्थानुवृत्त्यर्हं अदृष्टमाचार्यशब्दवाच्यमिति वरदानविधिबलादवगते तदुत्पादकक्रियापेक्षायां स्मृतेर्लक्षणभूतक्रियाविधिपरतत्वमाश्रियते । तथा च तदनुगुणामूलशृतिरुपनीयाध्यापयेदित्यनुमेया । नन्वाचार्यकरणविधिप्रयुक्तत्वमध्ययनस्य साधयितुमाचार्यत्वकामोऽध्यापयेदित्याधिकारविधि रूपवेदानुमानं साधयितव्यं । किमित्युपनीयाध्यापयेदित्याचार्यकस्य लिङर्यत्वेन विनियोगमात्रवेदानुमानमिति चेन्मैवं । वरदानविध्यनुपविष्टाचार्यलक्षणान्वाख्यानमात्रपरायाः स्मृतेस्तदपेक्षितालौकिकाचार्यपदार्थोत्पादकक्रियाविनियोगमात्रोपलक्षणता स्वीकार्या । न तद्विषयाधिकारविधिपरता गौरवापत्तेः । अपेक्षाभावाच्च । आचार्यत्वं नाम आचार्यशब्दप्रवृत्तिनिमित्तं; त्वतलादेर्निष्कृष्टप्रवृत्तिनिमित्तवचनस्वभावत्वात् । तच्चाचार्यत्वं उपनयनाङ्गकाध्यापनसाध्यमदृष्टमिति तन्मात्रमेव विधिरनुजानातु न ततोऽतिरिक्तमिति वरदानविध्यपेक्षापूरणार्थं विनियोगक्रियाविधिपरत्व मात्रमपेक्षितं स्मृतेः । न ततोतिरिक्तमधिकारविषयापूर्वफलं । अतश्चापेक्षाभावो गौरवं च स्पष्टं । किं चाचार्यकस्य सुखदुःखनिवृत्त्योरन्यतरत्वाभावेन स्वर्गादितुल्यनैयोगिकफलत्वं कल्पयितुं न शक्यते । लिङ्वाच्यत्वे तु सुखदुःखनिवृत्त्योरन्यतरत्वाभावेऽपि वेदैकगम्यतृतीयप्रयोजनत्वमाचार्यस्य समस्तीति प्रत्यक्षवेदेऽपि तन्मात्रपरताऽधाप्यानादिविधिसिद्धैवेति नानुमेये