पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३३

पुटमेतत् सुपुष्टितम्
402
श्रीसरस्वतीविलासे

स्यात् । अन्यथा ऋत्विक्संस्कारस्यापि याजने यजनेऽपि प्रयोजकता स्यात् । मैवं; साधिकारविध्यनुप्रवेशिनोऽप्याचार्यकस्य वरदानादिलाभकरतयाऽध्यापकाभीष्टस्य वस्तुवृत्त्या अध्यापनाधिकारपादकत्वेन प्रयोजकत्वसंभवात् । ऋत्विक्संस्कारस्य तु लाभकरत्वेऽपि यजमानाधिकाराधीनतत्कर्तृकवरणादिसंपाद्यतयाऽन्याधीनत्वेन स्वेच्छश्या सम्पादयितुमशक्यत्वात् न स्वातन्त्र्येणाधिकारापादकतेति न प्रयोजकतासम्भव इति भेदः । अतः परमार्थतो वचनव्यक्तिः उपनीयाव्यापयेदित्येवरूपैव भवनाथस्याभिप्रेतेति मन्तव्यं । अतश्च लौकिकार्थक्रियासाधनत्वादिहेतोर्व्यभिचारस्सिद्धः । केचिदेवं परिहारन्ति--क्रिया आर्जनादिका साधनं यस्य स्वत्वस्य तल्लौकिकार्थक्रियासाधनमिति बहुव्रीहिः । लौकिकार्थक्रियासाध्यत्वादित्यर्थः । अतो नोद्धन्यता न व्यभिचारश्च विज्ञानेश्वरमतेऽपीत्यनुसन्धेयमिति; तदसत् । तत्पुरुषसमासं परित्यज्य जघन्यबहुव्रीहिसमासाश्रयणं पङ्कभिया पलायमानस्याशुचिपतनसमानमिति । एवंच स्वत्वस्य लौकिकत्वे सिद्धे "स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोरिति" गौतमीया धर्माः दृष्टर्था धनार्जनोपायाः । रिक्थादयस्तु पञ्च सर्वसाधारणाः । रिक्थं नाम रिक्थार्जनं-- पित्रादिधने स्वामित्वापादकं पुत्रादिजन्मेति यावत् । तथा च पैतृकधनलाभहेतुत्वेनोक्तं गौतमेनैव-- 'उत्पत्त्यैवायं स्वामित्वं लभते इत्याचार्याः' इति । सत्पत्त्यै-- मातृगर्भे शरीरोत्पत्त्यैवेत्यर्थः । अत एव विष्णुः-- 'जन्मना स्वत्वमापद्यत' इति । पुत्रस्यैव न तु पुत्रिकाया इति भारुचिः । संविभागः-- पुत्रादिधनविशेषनिष्ठस्वामित्वसंपादको