पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३५

पुटमेतत् सुपुष्टितम्
404
श्रीसरस्वतीविलासे

दिना लब्धस्य स्वत्वमेव नास्तीति तत्पुत्राणां तदविभाज्यमेव । यदा तु स्वत्वं लौकिकं तदा असत्प्रतिग्रहलब्धस्यापि स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव । तस्योत्सर्गेण शुध्यन्तीति प्रायश्चित्तमार्जयितुरेव । तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोषसंबन्धः ।

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥

इति स्मरणात् । स्वत्वस्य लौकिकत्वे क्वचिदेव परस्वत्वापत्तिः सङ्कल्पमात्रेण स्वत्वनिवृत्तिश्च । क्वचित्तु महापातकेनैव स्वत्वनिवृत्तिः न सङ्कल्पमात्रात् । अतश्च पितापुत्रसंबन्धो भर्तृभार्यासम्बन्धश्च महापातकादौ निवर्तत इति प्रपञ्चितं लिप्सासूत्रे ।

 ननु स्वत्वं लौकिकमस्तु स्वाम्यन्त्वलौकिकं । यथाऽह न्यायपूर्वकं सङ्ग्रहकारः--

वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न ।
अन्यस्वमन्यहस्तेषु चौर्यादेः किं न वर्तते ।
तस्माच्छास्त्रत एव स्यात्स्वाम्यं नानुभवादपि ॥

इति । तस्माच्छास्त्रैकसमधिगम्यं स्वाम्यं न पुनर्मानान्तरगम्यमित्यर्थः । मैवं; यस्मात्स्वाम्यस्वत्वयोस्तुल्ययोगक्षेमयोरेकतरमधिकृत्य साधिते लौकिकत्वे द्वयोरपि साधितमेवेत्यवगन्तव्यं । अतो यथाग्रन्थं लौकिकक्रियासाध्यत्वमेव अव्यभिचारात् स्वत्वस्य लौकिकत्वे हेतुरिति युक्तमुत्पश्यामः । तथा च स्वत्वस्य लौकिकत्वात् नैयायिक एव स्वाम्यसङ्क्रमक्रमो न वाचनिक इति सिद्धं । तदुक्तं विज्ञानयोगिना यत्तु-- 'पत्नी दुहितर' इत्यादिस्मरणं तदपि स्वामिसम्बन्धितया बहुषूपप्लव