पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३६

पुटमेतत् सुपुष्टितम्
405
व्यवहारकाण्डः

मानेषु व्यामोहनिवृत्तये प्रत्यासत्तितारतम्यन्यायनिबन्धनस्य स्वामितासङ्क्रमक्रमस्य निबन्धनमिति । ननु पत्नी दुहितरन्यायावलम्बनेन पत्न्याः पत्यंशहरत्वं स्यात् । तर्हि अविभक्तपत्नीनामपि 'शरीरार्धं स्मृता जाया' इत्यादिवक्ष्यमाणन्यायस्य तुल्यत्वात्पत्न्यंशहरत्वं स्यादिति चेन्मैवं । विभक्तपत्नीनां प्रत्येकनियतद्रव्यसद्भावात्तत्रैव पत्नीदुहितरन्यायः । अविभक्तपत्नीनां तु पत्युर्नियतद्रव्याभावात्समुदितद्रव्ये पत्यंशग्राहित्वस्याशक्यत्वात् पत्नीदुहितरन्यायो विभक्तविषय इति ध्येयं । ननु यद्येवं स्यात्तदा अविभक्तानां सर्वेषां भ्रातॄणां स्वर्यातानामंशग्राहित्वं तत्पत्नीनां न स्यात् । तथा स्मर्यते-- 'अविभक्तपत्नीनां तद्दायहरत्वमिति' सर्वेषां भ्रातॄणामभावे इति शेषः । अत्रोच्यते-- अविभक्तपत्नीनां तद्दायहरत्वमिति । तत्पतिज्ञातिसद्भावेऽपि तत्सोदराभावेन सर्वेषां दायस्य प्रत्येकपर्यवसितत्वेन नियतत्वसिद्धेरविभक्तत्वेऽपि विभक्तवन्न्यायस्य सुप्रसरत्वात्पत्नीनामेवांशहरत्वं । तत्र दुहितृमत्पत्न्यदुहितृमत्पत्नीविवेको न कर्तव्य इति वैष्णवं मतं । 'पत्नीदुहितर इत्यादौ पत्नीदुहितरेयस्यैकदेशस्यानुकरणं । पत्नीदुहितरश्चेत्यत्र प्रत्यासत्तितारतम्यन्यायं सूचयति मनुः--

पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ।

इति । अत्र क्रमो न विवक्षितः वा शब्दप्रयोगात् । अस्य तात्पर्यार्थं सङ्ग्रहकार आह--

अ(वि)शेषात्मजहीनस्य मृतस्य धनिनो धनम् ।
केनेदानीं ग्रहीतव्यमित्येतदधुनोच्यते ॥

अस्यार्थः-- मुख्यगौणपुत्रहीनस्य धनवतो मृतस्य धनमिदानीं तन्मरणानन्तरं केन हर्तव्यमित्याकांक्षायां पित्रादिना हर्तव्य