पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३७

पुटमेतत् सुपुष्टितम्
406
श्रीसरस्वतीविलासे

मित्येतत् अधुना पित्राद्यपेक्षया बहुविधोपकारकासन्नजनाभावे मनुनोच्यते इति । अत एव पित्रादिभ्यो गौणपुत्राणामासन्नत्वं ज्ञात्वा सङ्ग्रहकारेण 'पिता हरेदपुत्रस्य' इत्यस्य अशेषात्मजहीनस्येति तात्पर्यमुक्तं तदनवद्यमेव । किं तु गौणपुत्राणां दृष्टादृष्टोपकारकत्वेन पित्राद्यपेक्षया अग्रेसरत्वात् तदपेक्षयाऽऽसन्नतरत्वं तथा पत्न्या अपि दृष्टादृष्टोपकारेण श्रुतिस्मृत्यादिपर्यालोचनया पित्राद्यपेक्षया अग्रेसरत्वात् तदपेक्षयाऽऽसन्न तरत्वमस्ति । अतश्च पत्न्या अप्यभावे 'पिता हरेदपुत्रस्येत्येतन्मनुनोच्यत इत्येवं तात्पर्यं ऊह्यते । अत एव गौणपुत्राभावे दृष्टादृष्टोपकारकत्वलक्षणसम्बन्धेनान्यापेक्षया पत्न्याः प्रत्यासन्नत्वमभिधाय बृहस्पतिना तिष्ठत्स्वपि पित्रादिषु पत्न्या एव पतिधनभागित्वं दर्शितम् ।

आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ।
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्यर्धशरीरेऽपि कथमन्यस्समाप्नुयात् ॥
कुलेषु विद्यमानेषु पितृभ्रातृसनाभिषु ।
असुतस्य प्रमीतस्य तत्पत्नी भागहारिणी ॥

अत्र द्वितीयार्धेन शरीरार्धं स्युतेत्यादिना दृष्टादृष्टोपकारसंपादने पित्रादिभ्यः पत्न्याः प्रत्यासन्नत्वमभिहितं । अवयवार्थस्तु-- आम्नाये-- वेदे । 'अर्धो वा एष आत्मनो यत्पत्नी' इत्यादौ आत्मनो देहार्धस्येत्यर्थः । स्मृतितन्त्रे धर्मशास्त्रे ।

पतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर्न विधीयते ॥