पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३८

पुटमेतत् सुपुष्टितम्
407
व्यवहारकाण्डः

इत्यादौ । लोकाचारे-- लोकाचारानुमतार्थशास्त्र इत्यर्थः--

शरीरार्धमयीं जायां को विहास्यति पण्डितः ।

इत्येवमादौ पुण्यापुण्यफले कर्मणि सहाधिकारात् । असुतस्य-- मुख्यगौणसुतहीनस्य । पत्नी-- यज्ञाधिकारापादकप्रशस्तब्राह्मादिविवाहसंस्कृता 'पत्युर्नो यज्ञसंयोगे' इति पाणिनिस्मृतेः । तेन क्रीता भार्या पत्नीपदेन व्यावर्तिता । तस्याः पत्नीत्वायोगात् ।

तथा च स्मृत्यन्तरं--

क्रयक्रीता तु या नारी न सा पत्न्यभिधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः ॥

पत्नीत्वाभावे केवलदृष्टोपकारकत्वमेव नादृष्टोपकारकत्वं स्त्रिया इति दर्शयितुं दासीं विदुरित्युक्तम् । अत्र केचित् विवाहसंस्कृता जाया पत्नीत्युच्यत इति चन्द्रिकाकारोक्तमित्युनुपपन्नं । विवाहसंस्कारस्य पत्नीत्वोपपादकत्वाभावात् । पत्नीत्वं नाम पतिभार्यासंबन्धव्यतिरेकेण न किञ्चिदस्ति । तच्चार्ज्यार्जकरूपक्रियागर्भस्सम्बन्धः । स च लौकिक एव । अत एव महापातकादौ भार्यात्वस्य निवृत्तिः । भूतपूर्वगत्या भार्याभिमानः । न च विवाहे मन्त्रनियमो भार्यात्वोत्पादकः; तस्य वैधदानसिद्धत्वादित्युक्तं लिप्सासूत्रे गुरुणेत्याहुः । तन्न, गुरुणा तु पत्नीगतं स्वत्वमेव लौकिकमित्युक्तं न पत्नीत्वं; स्वत्वपत्नीत्वयोर्भेदात्; यज्ञसंयोगात् पत्नी; स्वामिसम्बन्धात्स्वमिति । महापातकादौ भार्यात्वस्यापि वियोग इति गुरुग्रन्थस्यायमर्थः-- भार्यात्वं नाम स्वत्वं; नतु पत्नीत्वं; अन्यथा प्रायश्चित्ते कृते पुनः पत्नीत्वं न स्यादित्युक्तं भारुचिना । अयमेवाभिप्रायः चन्द्रिकाकारादीनामिति सुष्ठूक्तं ब्राह्मादिविवाहे संस्कृता