पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४

पुटमेतत् सुपुष्टितम्


अथ द्वितीयोविलासः.


 मनुस्मृतेस्तदविरुद्धानामन्यासां स्मृतीनामितरासामुपस्मृतीनां पुराणेतिहासादीनां वेदमूलकत्वेन प्रामाण्यमङ्गीकृतं न्यायविद्भिः । केचिदत्र तासां स्मृतीनां न्यायमूलकत्वेऽपि न्यायस्य वेदमूलकत्वात् तत्स्मृतीनामपि वेदतुल्यत्वमिति केचित् ।

 अन्ये त्वाहुः । न्यायानां वेदार्थेतिकर्तव्यतावेदकत्वात् तत्तत्स्मृतीनां वेदमूलकत्वमिति । अपरे तु "व्यवहारान्नृपः पश्येत्" इत्यत्र विधेयस्य दर्शनस्य कथमंशपूरकत्वेन प्रमाणकोटिनिवेशात्प्रामाण्यमित्याहुः । अतश्च तदुक्तो धर्मोऽनुष्ठेयः सर्वेषां वर्णानां तत्प्रतिपाद्यश्चाधर्मो नानुष्ठेय इत्यविवादम् ।

 एतच्च मन्वादिस्वरूपाऽपरिज्ञाने तु न शक्यमिति[१] तन्निरूप्यते--

धर्मशास्त्रकर्तारः;

 मन्वङ्गिरोव्यासगौतमात्रेययमवसिष्ठदक्षसंवर्तशातातपपराशरविष्ण्वापस्तम्बहारीतशङ्खकात्यायनगुरुप्रचेतोनारदयोगीश्वरबोधायनपितामहसुमन्तुकश्यपबभ्रुपैठीनसिव्याघ्रपादसत्यव्रतभरद्वाजगार्ग्यकाष्णजिनिजाबालिजमदग्निलौगाक्षिवत्समरीचिदेवलपारस्करलिखितछागलेयात्रिभिः प्रणीताः[२] - स्मृतयः ॥ जाबानाचिकेतस्कन्दलौगाक्षिकश्यपव्याससनत्कुमारशतंनुजनकव्याघ्रकात्यायनजातूकर्णिकपिञ्जलबोधायनकणादविश्वामित्र (पैठीनसिगोभिल)[३] प्रणीता उपस्मृतयः । जाबालिलौगाक्षिव्यासादयः पूर्वोक्ता न भवन्ति ॥



  1. ज्ञाने ज्ञातुं दुश्शकमिति-- B.
  2. छागलेयप्रणीताः स्मृतयः.
  3. B कोशे नास्ति.