पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४१

पुटमेतत् सुपुष्टितम्
410
श्रीसरस्वतीविलासे

आधमनमाधिः । स्त्रीणां तु विभक्तदशायामपि भरणमेव । संभोगार्थमानीता स्त्रीत्युच्यते ।

क्रयक्रीता तु या नारी संभोगार्थं सुतार्थिना ।
गृहीता वाऽन्यदीया वा सैव स्त्री परिकीर्त्यते ॥

अन्यदीया-- परकान्ता 'योषिद्ग्राह ऋणं दाप्य' इत्यत्र योषिच्छब्दार्थतया निरूपिता । तस्याः स्त्रिया नांशभागित्वमित्याह कात्यायनः--

स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी ।
अविभक्तधनांशं तु प्राप्नोत्यामरणान्तिकम् ॥

उत्तरार्धः पत्नीविषयः । अविभक्तायाः पत्न्या अप्यंशोऽस्ति । यथाऽऽह स एव--

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
भुञ्जीतामरणं क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥

एतच्च भरणाक्षमेषु श्वशुरादिषु विज्ञेयम् । यथाऽह बृहस्पतिः--

प्रदद्याद्वत्सरे पिण्डं क्षेत्रांशं वा यदृच्छया ।

इति । जीवनमात्रसाधनं द्रव्यं पिण्डशब्दार्थः । जीवनमात्रसाधनस्य द्रव्यस्य स्वल्पामियत्तामाह नारदः--

आढकांस्तु चतुस्त्रिंशच्चत्वारिंशत्पणांस्तथा ।
प्रतिसंवत्सरं साध्वी लभेत मृतभर्तृका ॥

वत्सरेवत्सरे इति प्रतिवत्सरं । आढकोऽष्टोनद्विशतप्रसृतिपरिमितधान्यचयः । पणः कार्षापणः व्यावहारिकनिष्काशीतिभाग इत्यपरे । स्त्रीभ्यो यद्दत्तं तत्परिपालनीयं इत्याह कात्यायनः--

स्थावराज्जीवनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु ।
न तच्छक्यमपाकर्तुं उत्तरैः श्वशुरे मृते ॥