पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४२

पुटमेतत् सुपुष्टितम्
411
व्यवहारकाण्डः

श्वशुरग्रहणं भरणकारिणामुपलक्षणार्थं । स्थावरग्रहणं च धनग्रहणस्योपलक्षणार्थं । तेन धनमपि जीवनार्थं स्त्रीभ्यो यद्दत्तं तन्नापाकर्तुमितरैश्शक्यमित्यवगन्तव्यं । तदपवादमाह कात्यायनः--

भोक्तुमर्हति क्लृप्तांशं गुरुशुश्रूषणे रता ।
न कुर्याद्यदि शुश्रूषां चेलपिण्डे नियोजयेत् ॥

क्लृप्तांशमपहृत्येति शेषः । अत्र यावज्जीवभरणवृत्तिमाह विष्णुः--

 'प्रतिसंवत्सरं चत्वारिंशत्पणाश्चतुर्विंशदाढकाः । अथवा यावज्जीवं शतं कार्षापणास्तदर्धं वा' इति । अकार्यकारिणीनामपि क्लृप्तांशहरणं कार्यमित्याह स एव--

निर्मर्यादानां क्लृप्तांशहरणं कार्यम् ।

इति । निर्मर्यादाः-- व्यभिचारिण्यः । अत एवाह नारदः-

भरणं चास्य कुर्वीरन् स्त्रीणामाजीवनक्षयात् ।
रक्षन्ति शय्यां भर्त्तुश्चेदाच्छिद्युरितरासु तत् ॥

इतरासु-- व्यभिचारिणीषु । तत् भरणं । यत्तु मनुनोक्तम्--

एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि ।
वस्त्रान्नमासां देयं तु वसेयुश्च गृहान्तिके ॥

इति । तद्भर्तृकर्तृकविषयं । एवं स्त्रीणां यद्भरणप्रतिपादकं वचनजातं तदविभक्तपत्नीविषयं च वेदितव्यं । यच्च--

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
भुञ्जीतामरणं क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥

इति ।

स्थावरं जङ्गमं चैव कुप्यधान्यरसाम्बरम् ।
मृते भर्तरि भर्त्रम्शं लभते कुलपालिका ॥
यावज्जीवं तु तत्स्वाम्यं दानाधमनविक्रये ।