पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४५

पुटमेतत् सुपुष्टितम्
414
श्रीसरस्वतीविलासे

नन्वेवं स्वयमेव पिता श्राद्धदाने दृष्टोपकारक इति दुहित्रपेक्षया आसन्नतरत्वात्पत्न्याभावे दुहितुः कथं धनग्रहणमिति चेन्मैवं ।

तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ।

इत्यनेनैवोक्तत्वात् । तथाहि यद्यपि दृष्टोपकारसम्बन्धेन पितुस्सकाशाद्व्यवहिता; तथा शरीरसंबन्धेनाव्यवहितेत्युभयथा दुहितैवाग्रेसरी । एवं तर्हि दुहित्रभावे 'पिता हरेत्' इत्यस्यावसरस्स्यात् , मैवं । अधुनाऽपि न तस्यावसरस्स्यात् । दुहित्रभावे दौहित्रस्य तत्कोटित्वेन पित्राद्यपेक्षयाऽऽसन्नत्वात् ।

अपुत्रपौत्रसन्ताने दौहित्रा धनमाप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रका मताः ॥

इति विष्णुस्मरणाच्च । अत्र धारेश्वरदेवस्वामिदेवरातश्रीकरादयो दुहितृगामिधनमिति विधायकं वचनजातं पुत्रिकाविषयमेवेत्याहुः । तन्मतं दूषयति चन्द्रिकाकारः । तथा च चन्द्रिकाकारगग्रन्थः--धरिश्वरदेवस्वामिदेवरातमतं प्रतितन्त्रसिद्धान्तानभिज्ञानोन्मादकल्पितं निरस्तं वेदितव्यमिति । प्रतितन्त्रसिद्धान्तः-- स्वसिद्धान्तः । विज्ञानयोगीश्वरेणाऽपि दूषितं । यथा मिताक्षराग्रन्थः-- न चैतत्पुत्रिकाविषयं; 'तत्समः पुत्रिकासुतः' इति पुत्रिकायास्तत्सुतस्य च औरससमत्वेन पुत्रप्रकरणेऽभिधानादिति । धारेश्वरादीनामयमभिसन्धिः--गौणपुत्राणामौरसेन सह दशविधत्वमेव । पुत्रिकासुतस्य स्वयंकृतसुतस्य स्वमतिकल्पितत्वात्पुत्रत्वं नास्ति । किंतु दायभाक्त्वमात्रं । अतश्चैव पुत्रिकैव सुतः पुत्रिकासुत इति पुत्रिकायाःसुताः पुत्रिकासुत इति समासद्वयाङ्गीकारेऽपि पुत्रिकायास्सुतस्य पौत्रतुल्यत्वं पुत्रिकारूपसुतस्य तु