पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४६

पुटमेतत् सुपुष्टितम्
415
व्यवहारकाण्डः

पुत्रतुल्यतया पत्न्या अप्यन्तरङ्गतया पूर्वं पुत्रिकाया धनप्राप्तिः । पुत्रवत्तदनन्तरं पत्न्या इति न्यायप्रतिपादनार्थं पत्नी दुहितरश्चेति चकारः । दुहितर इति बहुवचनं अपुत्रिका दुहितृपुत्रिका करणदुहितृपुत्रिकासुतजननीरूपदुहितॄणामुपसङ्ग्रहार्थं । अतश्च--

अशेषात्मजहीनस्य मृतस्य धनिनो धनम् ।

इत्यादि सङ्ग्रहकारादिवचनेष्वशेषात्मजपदेन पुत्रिकाया अनुपसङ्ग्रहात्तदर्थं पुत्रिकासुत इति वचने तु औरसादर्धधनभाक्त्वमपि सिद्धमिति । अतश्च त्रिविधानां पुत्रिकाणां मध्ये पुत्रिकाकरणदुहितुःसमुदितद्रव्यस्यार्धं । इतरयोस्तु दुहित्रोरर्धमिति । एतच्च धारेश्वरादीनामभिमतमिति योग्यमित्युल्लिखितं । तन्न सङ्गच्छते-- पुत्रिकायास्सुत इति पुत्रिकैव सुत इत्यत्र सुतशब्दस्य दायभाक्त्वमात्रेण गौणार्थता न युज्यते । पितुरौर्ध्वदैहिकादिपुत्रकृत्ये औरसाभावे तस्यैवाधिकारस्मरणात् । गौणसुतत्वं नाम अनौरसत्वमिति । अतश्च पुत्रसमानयोगक्षेमतया पूर्वमेव दायग्रहणस्य प्रतिपादनादित्यलमतिविस्तरेण । केचित्तु पत्नीदुहितरश्चैवेत्येवकारेण पत्न्या यज्ञसंयोगवत्या दुहितर एव; न स्त्रियाः । चकारात्पत्न्या अपीत्याहुः । तन्न; तथा च सति धनस्य दुहितृगामित्वानन्तरं पत्न्यभिगामित्वं स्यात्तथा च पूर्वोक्तनयविरोधस्स्यादिति । अत्र चशब्दाद्दुहित्रभावे दौहित्रो धनभाकतत्कोटित्वात् । तथाऽऽह विष्णुः--

अपुत्रपौत्रसन्ताने दौहित्रा धनमाप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रका मताः ॥

इति । मनुरपि--

अकृता वा कृता वाऽपि यं विन्देत्सदृशं सुतम् ।