पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४७

पुटमेतत् सुपुष्टितम्
416
श्रीसरस्वतीविलासे

पौत्री मातामहस्तेन दद्यात्पिण्डं धनं हरेत् ॥

इति तदभावे पितरौ-- मातापितरौ धनभाजौ । मातृशब्दस्य द्वन्द्वे पूर्वं निपाताद्द्वन्द्ववाधकत्वादेकशेषस्य । विग्रहवाक्यस्थमातृशब्दस्य पूर्वस्मरणात् पाठक्रमादेवार्थक्रमावगमात् । धनसम्बन्धेऽपि क्रमापेक्षायां प्रतीतिक्रमानुरोधेनैव प्रथमं माता धनभाक् । तदभावे पितेति गम्यते । किञ्च पिता पुत्रान्तरेष्वपि साधारणः । माता तु न साधारणा इति प्रत्यासत्त्यतिशयः--

अनन्तरं सपिण्डाद्यः तस्यतस्य धनं हरेत् ।

इति वचनान्मातुरेव प्रथमं धनग्रहणं । मातापित्रोर्मातुरेव प्रत्यासत्त्यतिशयाद्धनग्रहणं युक्तं । तदभावे पिता धनभागिति विज्ञानेश्वरमतं । चन्द्रिकाकारेण तु पितुरेव प्रथमं धनग्रहणाधिकारः प्रतिपाद्यते । तदभावे पितृगामि तदभावे मातृगामीति विष्णुस्मृतेः । चन्द्रिकाकारमताद्विज्ञानयोगिमतमेव सम्यक् । न्यायमूलतया प्रतिपादनात् । अनेन श्रीकरोक्तं पित्रोर्विभज्य धनग्रहणं निरस्तं वेदितव्यं ।

पित्रभावे भ्रातरो धनभाजः । यथाऽह मनुः--
पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा ।

इति । यत्पुनर्धारेश्वरेणोक्तं--

अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् ।
मातर्यपि च वृत्तायां पितुर्माता धनं हरेत् ॥

इति मनुवचनात् जीवत्यपि पितरि मातरि च वृत्तायां पितुरेव तु माता पितामही धनं हरेत् । न पिता; यतः पितृगृहीतं धनं विजातीयेष्वपि पुत्रेषु गच्छति । पितामहीगृहीतं तु सजातीयेष्वेव गच्छतीति पितामह्येव गृह्णातीति । एतद्विज्ञानयोगी न