पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४८

पुटमेतत् सुपुष्टितम्
417
व्यवहारकाण्डः

मन्यते । विजातीयपुत्राणामपि धनग्रहणस्योक्तत्वात् 'चतुस्त्रिद्व्येकभागास्स्युः' इत्यादिना । भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुः । भिन्नोदराणां मात्रा विप्रकर्षात् । सोदराणामभावे भिन्नोदरा धनभाजः । भ्रातॄणामभावे तत्पुत्राः पितृक्रमेण धनभाजः । पितृतो भागकल्पनेति वचनात् । भ्रातृपुत्राणामभावे गोत्रजा धनभाजः पितामही सपिण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् ।

मातर्यपि च वृत्तायां पितुर्माता धनं हरेत् ।

इति मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्ये अनुप्रवेशाभावात् पितुर्माता धनं हरेदित्यस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रापरत्वादुत्कर्षे तत्सुतानन्तरं पितामही गृह्णाति अविरोधादिति विज्ञानयोगिमतं । एतन्न सहते चन्द्रिकाकारः ।

मातर्यपि च वृत्तायां पितुर्माता धनं हरेत् ।

इति क्रमस्योक्तेः अपुत्रधनं पत्न्यभिगामि तदभावे मातापितरौ गृह्णीयातां; तदभावे पितुर्माता भ्रातरस्सपिण्डा इति विष्णुस्मृतेश्च मात्रानन्तरं पितामह्या धन भाक्त्वमिति । अत्र विज्ञानयोगिमतमेव सम्यगित्याहुः । पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः । भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र पितृसन्तानाभावे पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसन्तानाभावे तत्प्रपितामाही पितामहः तत्पुत्राः तत्सूनवश्चेति । एवमासप्तमात्सगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् ।

अनन्तरस्सपिण्डाद्यस्तस्यतस्य धनं हरेत् ।

 S.VILASA.
53