पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५

पुटमेतत् सुपुष्टितम्
14
श्रीसरस्वतीविलासे

पुराणानि.

 पुराणानि तु-- ब्राह्मपाद्मवैष्णवशैवभागवतनारदीयमार्कण्डेयाग्नेयभविष्यत्ब्रह्मवैवर्तर्लैङ्गवाराहस्कान्दवामनकौर्ममात्स्यगारुडब्रह्माण्डानि एतान्यष्टादशपुराणानि ॥

इतिहासनामानि.

 इतिहासाः-- सत्यतप उपाख्यानसोमोत्पत्तिप्रभृतयः । अत एव "मानवो धर्मस्साङ्गो वेदः । पुराणं चिकित्सितमित्येतानि चत्वार्याज्ञासिद्धानि" इत्युक्तं विष्णुना । मानवो धर्म इत्यनेन मनुस्मृत्यविरुद्धास्सर्वास्स्मृतयश्च सङ्गृहीताः । पुराणशब्दश्चेतिहासादीनामुपलक्षकः । एवञ्च गृह्यकारप्रणीतानामपि प्रामाण्यमविरुद्धम् । तेषामपि मन्वादिप्रणीतसंस्कारकलापस्यैव मन्त्रविनियोगद्वारेण प्रयोजकत्वात् ॥

 "गृह्यकाराः स्वतन्त्रतः तत्प्रयुक्तप्रयोक्तारः" इति देवलस्मृतेः एवं स्थिते टीकाकारैः विज्ञानयोगिप्रभृतिभिः निबन्धनकारैः कुलार्कलक्ष्मीधरप्रभृतिभिः लोकानुजिघृक्षया स्मृतिव्याख्यानव्याजेन सर्वाः स्मृतयो व्याख्याताः शिष्टाऽनुगृहीतसर्वानुष्ठापकपूर्वनिबन्धृनिर्मितनिबन्धेषु विद्यमानेषु ।

एकेन चरितार्थत्वात् इतराऽनर्थतानयः ।
पूर्वप्रबन्धैर्विषयी भवेदिति ममोद्यमः ॥

 मदीयग्रन्थे जाग्रति पूर्वनिबन्धृनिर्मितनिबन्धेषु आनर्थक्यनयविश्रान्तिरिति । यद्वा पूर्वनिबन्धेषु विषयैक्ये तद्विपरीतलक्षणया विज्ञानयोगिभारुचिमेधातिथ्यसहायापरार्कचन्द्रिकाकारकुलार्कलक्ष्मीपतिप्रभृतिभिः प्रबन्धृभिः निर्मितेषु प्रबन्धेषु