तदभावे आचार्यपुत्रगामि तदभावे तत्पत्नीगामि तदभावे सब्रह्मचारिगामि तदभावे सच्छोत्रियब्राह्मणगामि तदभावे श्रोत्रियमात्रगामि तदभावे ब्राह्मणमात्रगामीत्याहुः । यथाऽऽह मनुः--
सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याश्शुचयो दान्तास्तथा धर्मो न हीयते ॥
इति । न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् ।
नाहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्मृतेः ।
इति मनुवचनात् । नारदेनाप्युक्तम्--
ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कश्चन ।
ब्राह्मणायैव दातव्यमेनस्वी स्यान्नृपोऽन्यथा ॥
इति । यत्तु मनुनोक्तम्--
इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ।
इति । शूद्रव्यतिरिक्तवर्णानां क्षत्रियवैश्यानामेव धनं सब्रह्मचारिपर्यन्तानामभावे राजा तद्धनं हरेत् न ब्राह्मण इत्यर्थः । शूद्रस्य तु भ्रातृपर्यन्ताभावे राजगामि धनम् ।
शूद्रस्यैकोदराभावे राजा तद्धनमाप्नुयात् ।
इति । एवं योनिसम्बन्धविद्यासन्तत्योः प्राधान्येन योनिसन्ततेः दायग्रहणमुक्त्वा विद्यासम्बन्धसन्ततेः दायक्रममाह । याज्ञवल्क्यः--
वानप्रस्थयतिब्रह्मचारिणा रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्या धर्मभ्रात्रेकतीर्थिनः ॥
वानप्रस्थस्य-- यतेः ब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेण आचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः रिक्थस्य-- धनस्य भागिनः । ब्रह्मचारी द्विविधः-- उपकुर्वाणश्च नैष्ठिकश्च । उपकुर्वाणस्य धनं