पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५२

पुटमेतत् सुपुष्टितम्
421
व्यवहारकाण्डः

मात्रादय एव गृह्णन्ति । नैष्ठिकस्य धनमाचार्य इति । तत्र विद्यासम्बन्धस्यैव योनिसम्बन्धाद्गरीयस्त्वात् । यतेस्तु धनं सच्छिष्या गृह्णन्ति । यतिश्चतुर्विधः-- कुटीचक बहूदक हंस परमहंस भेदात् । कुटीचक बहूदक हंसानां आचार्याभावे शिष्यस्य धनग्रहः । परमहंसस्य तु आचार्याभावात् शिष्य एव गृह्णाति । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थं गृह्णाति । एकतीर्थी-- एकाश्रमी । धर्मभ्राता प्रतिपन्नो भ्राता एकगुरुशिष्यतया भ्रातृत्वेन स्वीकृत इत्यर्थः । धर्मभ्राता चासावेकतीर्थी च इति विशेषणसमास इति विज्ञानेशः । 'अनंशास्त्वाश्रमान्तरगता' इति वसिष्ठस्मरणं तु इच्छया रिक्थसम्बन्धो नास्तीत्येवम्परं ।

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य निचयं कुर्यात् कृतमाश्वयुजे त्यजेत् ॥

इति वानप्रस्थमधिकृत्योक्तेः--

कौपीनाच्छादनार्थं च वासांसि बिभृयात्तदा ।
योगसम्भारभेदांश्च गृह्णीयात्पादुके तथा ॥

इति यतिमधिकृत्योक्तेः । नैष्ठिकस्यापि शरीरयात्रार्थं वस्त्रादिसम्बन्धोऽस्त्येवेत्येतद्विभागकथनं युक्तमेवेत्यवगन्तव्यम् । अत्राह भगवान् लक्ष्मीधरः-- अशेषात्मजहीनस्य मृतस्यासंसृष्टिनो धनं प्रथमं पत्न्यभिगामि तदभावे दुहितृगामि तदभावे चकाराद्दौहित्रगामि तदभावे मातापितरौ हरेयातां तदभावे भ्रातृगामि तदभावे बन्धवो यथाक्रमं गृह्णीयुरिति । प्रथमं रिक्थस्यात्मवर्गे पत्न्यादौ सङ्क्रमस्तदनन्तरं पितृवर्गे पितृपितृव्यतत्पुत्रादौ सङ्क्रमस्तदनन्तरं पितामहवर्गे आसप्तमं सङ्क्रमः तदनन्तरं समानोदकेषु तदभावे आत्मबन्धुषु तदभावे पितृबन्धुषु