पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५४

पुटमेतत् सुपुष्टितम्
423
व्यवहारकाण्डः

"बीजशब्दः पिण्डवाची"

इति । अत्र निर्वाप्यपिण्डान्वय एव विवक्षितः । मातुः पित्रा [१]सापिण्ड्यात् । उभयग्रहणात्पितुरेव प्राधान्यं तदभावे मातुरेवेति । अयमेवाशयः चन्द्रिकाकारोदाहृतवैष्णववचनस्यापी ध्येयम् । अत्रेदं तत्वं-- यथा पितृद्रव्ये पुत्राणां दायस्वीकारोऽप्रतिबन्धः । पुत्रः पुत्रत्वेनैव पितृद्रव्यस्वामी दुहित्रादिस्थलेऽपि पुत्रसन्ततिसद्भावे तत्स्वामित्वं तत्पुत्रत्वेनैव । अत उक्तं तत्सुता इति । नन्वत्र तच्छब्देनापुत्रभ्रातैव परामृश्यते । न तु भ्रातृमात्रमिति तत्पुत्रस्याप्रतिबन्धदायार्हता नास्तीति प्रतिभातीति चेन्मैवं । भ्रातृशब्दस्य सम्बन्धिशब्दत्वादपुत्रस्य भ्रातेति गम्यते भ्रातृपदेन । न तु तत्पदेन अपुत्रसम्बधविशेषणविशिष्टभ्रातृपरामर्शः तावत्पर्यन्तं शब्दतात्पर्याभावात् । नचात्र रिक्थग्राहितयाऽपि तद्भ्रातृसुतानां तत्कृतमृणमपाकरणीयं स्यात्तथात्वे 'रिक्थग्राही ऋणं दाप्य' इति सामान्येन स्मरणं व्याहन्येत । न च तथाऽङ्गीकारः । सर्वलोकसिद्धत्वात्तदृणापाकरणस्येति वाच्यं । भूतपूर्वगत्या तदीयरिक्थग्राहित्वात्तेषां तदृणमपाकरणीयं । अत्रेदमुपतिष्ठते वैष्णवं वचनं-- "दौहित्रान्तानामपाये मातापितरौ हरेयाताम्" इति । "पत्नीदुहितरश्चैवेति" याज्ञवल्कीयवचनगतचकारानुकृष्टानां दौहित्रान्तानामभावे मातापितरौ पिण्डानुरोधेन धनं हरेयातां । दौहित्रसङ्क्रान्त्यनन्तरं तत्पुत्रगाम्येव धनं न मातापितृगामि । अत्रेदं तत्वं-- सप्रतिबन्धस्थलेऽपि पुत्रसन्ततिसद्भावेऽपि अप्रतिबन्ध एव दाय इति चकारैवकाराभ्यां याज्ञवल्कीयवचनतात्पर्यमवधार्यं । 'रिक्थग्राही ऋणं



  1. सापिण्ड्यादुभयोग्रहणं । मातुरेवप्राधान्यं तदभावे मातुरेवेति ।