पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५८

पुटमेतत् सुपुष्टितम्
427
व्यवहारकाण्डः

अम्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ।

इति परिभाषावशात् पुत्रिकापुत्रस्य (?) मातामहसंबन्धः । इतरस्य तूभयसम्बन्धित्वमिति । अत्रोच्यते-- दौहित्रस्य मातामहश्राद्धे पुत्रवदधिकार इत्याह विष्णुः-- दोहित्रस्य मातामहश्राद्धं निष्कारणमिति । कारणं-- रिक्थग्रहणात्मकं । दौहित्रस्य मातामहश्राद्धे नित्यवदधिकार इत्यर्थः । अत्र भारुचिः--निष्कारणमिति वदता विष्णुना भङ्ग्यन्तरेण समनन्तरकर्तॄणां पुत्रादीनां विद्यमानत्वे दौहित्रस्य कर्तृत्वसङ्क्रान्तिः । अत्रादिशब्देन पत्नी विवक्षिता; यद्यग्निविद्यासाध्यकर्मसु स्त्रीणामधिकारस्तत्रापि

पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ।
इत्येवमादिवचनबलात्तत्र तासामधिकारः ॥

तथा च गौतमः-- नित्यवदधिकारो दौहित्राणां मातामहश्राद्धे इति । नित्यवदिति स्वार्थे वतिः । अतश्च--

अकृता वा कृता वाऽपि यं विन्देत्मदृशं सुतम् ।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥

इति पत्नीशब्दवाच्यभार्यापुत्रिकासुतविषयं पुत्रिकाकरणपुत्रिकासुतविषयं च वेदितव्यं । नन्वेवमकृता वा कृता वेत्यादि वचनं पुत्रिकाकरणविषयं कृतेतिपदेन; अकृतेति पदेन तु गान्धर्वादिविवाहोढापूत्रिकाविषयः 'पौत्री मातामहस्तेनेति' वचनसामर्थ्यात् पौत्रत्वमुभयोरेव पुत्रिकायाः पुत्रत्वात् तत्पुत्रस्य दौहित्रत्वात् । गान्धर्वविवाहे मातामहसापिण्ड्यपगोत्रत्वयोरनिवृत्तेः तत्र पौत्रत्वमिति तयोरेव मातामहश्राद्धे नित्यवदधिकारः न दौहित्रमात्रस्येति चेन्मैवं 'दद्यात्पिण्डं हरेद्धनमिति' धनहरणस्य पत्नीमूलकत्वात्पत्नीपदेन यज्ञसंयोगप्रतिपादकेन गान्धर्वादिविवाहोढापर्युदासात्