पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५९

पुटमेतत् सुपुष्टितम्
428
श्रीसरस्वतीविलासे

तत्पौत्राणां दूरत एव पत्नीमूलकधनग्रहणमिति । किं च पौत्रीति सामर्थ्यात् गान्धर्वादिविवाहोढापुत्रिकापुत्रेऽपि नास्ति दौहित्रत्वात्तस्य किन्तूपचार एव । अतः पूर्वोक्तमेव सम्यक् । नन्वेवं "यो यत आददीत स तस्मै श्राद्धं कुर्यादिति" वैष्णववचनं; दौहित्रस्य मातामहश्राद्धं निष्कारणमिति च वैष्णमेव; उभयोर्विरोध इति चेन्मैवं । अत्र भगवतो र्भारुचेर्मतमवतिष्ठते-- यः श्राद्धाधिकारी यतो यस्मात्सकाशाद्धनमादद्यात्तेन मिळितेन द्रव्येण तस्मै तदर्थं तत्प्रतिनिधिर्भूत्वा कुर्यादिति । अयमाशयः-- बहुपुत्रस्थले बहुदौहित्रस्थले पितुर्मातामहस्य वा और्ध्वदैहिकक्रियाणां मध्ये नवश्राद्धषोडशश्राद्धानां निष्पादने न बहुनामधिकारः किंत्वेकस्यैवेति प्रकरणसामर्थ्यादुक्तं भारुचिनेति ध्येयम् । सोमेश्वरस्तु-- वचनस्याभिधानशक्त्या प्रकरणं बाधित्वा यो यत आददीत स तस्मै श्राद्धं कुर्यादिति वचनं पुत्रदौहित्रव्यतिरिक्तरिक्थग्राहविषयमित्याह । एतच्च समनन्तरमेवोक्तं विष्णुना-- उद्धृतद्रव्यादेकेनैव शक्तेन श्राद्धषोडशकं कार्यमिति । षोदृशश्राद्धग्रहणं नवश्राद्धानामुपलक्षकं । तथा च गौतमः-- "समुदितद्रव्येण नवश्राद्धं षोडशश्राद्धं च कुर्यादिति" चकारः पन्थापरिव्ययणं समुच्चिनोति । समुदितशब्देन ज्ञायते-- एकस्यैवाधिकारो नान्येषामिति । विष्णुवचने शक्तपदं सामर्थ्यमधिकारं च गमयति । तथाचाययमर्थः-- एकशब्दो मुख्यवाची मुख्यो ज्येष्ठोऽधिकृतश्चेत्स एव अधिकारी । अन्यथा समनन्तरन्यायसिद्धार्थः । शक्तो दृढाङ्गः । एकः दौहित्राणां मध्ये स एवाधिकारीति । अस्मिन् प्रकरणे पठितत्वात् यो यत आददीतेति वचनमेतदनुरोधेन व्याख्यातं भारुचिना । न्यायनिष्ठेन भगवता सोमेश्वरेण न्यायतः प्रकरणमुल्लक्ष्तिमिति ध्येयं । अतश्च यानि रिक्थग्राहकर्तृकपराणि--