पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६१

पुटमेतत् सुपुष्टितम्
430
श्रीसरस्वतीविलासे

षत्कल्पः पौत्र एवेति तस्याप्यानृण्यं पुत्रवन्मातामहौर्ध्वदैहिकक्रियाकरणात्सेत्स्यतीति । अत एव श्रुतिः--

दुहिता पुत्रकल्पा च पौत्रा दौहित्रकाः स्मृताः ।

इति । न चैषा पुत्रिकाकरणविषयेति शङ्कनीयं । कल्पप्प्रत्ययानन्वयात् । पुत्रिकाकरणे पुत्रिकैव पुत्र इति न पुत्रकल्पता पुत्रिकायाः । अत एवेषत्कल्पपुत्रः पुत्रिका ईषत्कल्पपुपौत्रो दौहित्र एवेति सिद्धं । यत्तु सन्नियोगशिष्टमातामहश्राद्धप्रतिपादकं वचनं--

पितरो यत्र पूज्यते तत्र मातामहा अपि ।
अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत् ॥

इति । तत्तु जीवपुत्राजीवपुत्रमातामहद्वयसाधारणं । तथा च याज्ञवल्क्यः--

द्वौ दैवे प्राक्रयः पित्र्ये उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥

इति ।

कुर्यान्मातामहश्राद्धं नियमात्पुत्रिकासुतः ।

इत्यादिवचनमेतद्वचना (नृ) विरोध्येव । विज्ञानयोगिप्रभृतयस्तु सन्नियोगशिष्टं श्राद्धं मातामहोद्देश्यं पाक्षिकमित्याहुः । अतश्च दौहित्रस्य मातापितृतोऽपि दृष्टादृष्टोपकारकतया प्रत्यासात्त्प्रतिशयात्तद्गाम्येव धनमिति सिद्धं । एतच्च लक्ष्मीधराचार्यमतप्रतिगम्भीरं दिङ्मात्रमुदाहृतं ।

 अथ पत्नीदुहितरन्यायस्यापवादमाह विष्णुः-- संसृष्टधनं न पत्न्यभिगामीति । अत्र भारुचिः-- अविभागदशायामिव संसृष्टदशायामपि धनं अनेकपुरुषवत्वसमावेशादेकपुरुषापायेन तत्स्वत्वनिवृत्तावपि पुरुषान्तरस्वत्वानां तथैवावस्थानात् को