पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६४

पुटमेतत् सुपुष्टितम्
433
व्यवहारकाण्डः

अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ।

इति । असंसृष्टीति शेषः । तथाहि विष्णुः-- 'भिन्नोदराणां संसृष्टिनो गृह्णीयुः' । अत्र भारुचिः-- भिन्नोदराणामिति निर्धारणे षष्ठी । भिन्नोदराणां मध्ये संसृष्टिन एव धनं गृह्णीयुः । अयंभावः-- यद्यपि भिन्नोदराणां संसृष्टिनामसंसृष्टीनां च तत्पिण्डदानेऽधिकारस्तुल्य एव; पिण्डदाने ज्येष्ठकनिष्ठत्वादिविवेकानपेक्षया अधिकारस्य तुल्यत्वादित्युक्तेः । पिण्डदानाधिकाररूपान्तरङ्गन्यायतौल्येऽपि पाक्षिकापचयभाराभ्युपगमसाहसशालित्वरूपन्यायस्याधिकस्य विद्यमानत्वात्तत्रैव धनग्राहित्वमिति न काचिदनुपपत्तिः । ननु पित्रा भ्रात्रा पितृव्येण च संसृष्टधनं न पितृगामि नापि पितृव्यगामि अपि तु भ्रातृगाम्येवेत्युक्तं । एवं च सति वाचनिकस्वत्वसङ्कमस्स्यात्; स नैयायिक इति प्रागुक्तं निरुन्ध्यात् । अतस्संसृष्टिविषयेऽपि पित्राद्यपेक्षया भ्रातुः प्राथम्ये न्याय एव वक्तव्यः उच्यते-- उक्तं तावद्विभक्तानां पुनः संसर्गप्रवृत्तिः पाक्षिकापचयभाराभ्युपगमसाहसपूर्विकेति । भ्रतॄणामेव च संसर्गप्रवृत्तिस्तादृशी न पितुः । पितापुत्रयोरसत्यापि संसर्गेऽन्यतरापचयनिबन्धनापचयसङ्क्रान्तेरवर्जनीयत्वेन कृताकृतप्रसङ्गित्वात् । श्रूयतेऽपि--

तथा पिता पुत्रं क्षित उपधावति ।
यथा पुत्रः पितरं क्षित उपधावति ॥

इति । अतो भ्रातॄणामेव संसर्गे प्रवृतिः पाक्षिकापचयभाराभ्युपगमसाहसपूर्विका न पितुरिति भ्रातृप्राथम्यं नैयायिकमेव । नन्वेवं पुवाद्विभक्तस्य पितुः स्वभ्रातृभिस्संसृष्टस्य

 VILASA.
55