पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६६

पुटमेतत् सुपुष्टितम्
435
व्यवहारकाण्डः

इति । अपिशब्देन 'सोदरस्य तु सोदर' इत्यत्र सोदरोऽनुकृष्यत इति भारुचिः । लक्ष्मीधरस्तु-- अपिशब्देन 'संसृष्टो नान्यमातृज' इत्यन्यमातृजपदसामर्थ्यात् सोदर एव समुच्चीयत इत्याह । तदयमर्थः-संसृष्टिनो धनं असंसृष्टसोदर एव गृह्णीयात् । अन्यमातृजस्तु संसृष्टोऽपि न गृह्णीयात् । असंसृष्टिनस्सोदरस्य पाक्षिकापचयभाराभ्युपगमसाहसशालित्वाभावेऽपि पितृपिण्डदानाधिकारस्तस्यैवेति तदुक्तिः । अनेनैव न्यायेन एकोदराणामपि संसृष्टस्य मध्यमस्य मरणे कनिष्ठस्यासंसृष्टिनः तदौर्ध्वदेहिकाधिकारात् संसृष्टज्येष्ठस्य विद्यमानत्वेऽपि तस्य न मध्यमांशग्राहित्वमिति ध्येयं । अत्र केचिदाहुः-- 'असंसृष्ट्यपि चादद्यात्संसृष्ट' इति संसृष्टपदं सोदरवाचि संसृष्टधनवद्वाचीत्यर्थद्वयमाहुः । अवसिते तात्पर्ये संसृष्टपदमावृत्त्या वाक्यद्वयेऽप्यन्वितमस्तु वाक्यभेदे च विरूपार्थता न दोष इति विज्ञानयोगिनो मतमिति । ननु पित्रा संसृष्टानां पुत्राणां धनग्राहित्वं । असंसृष्टानां पुत्राणां पितृधनग्राहित्वं नास्ति । यथा अविभक्तजपुत्रस्य पितृधनग्राहित्वं; नान्येषां पुत्राणामिति । मैवं ।

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् ॥

इति ।

पुत्रैस्सह विभक्तेन पित्रा यत्स्वयमार्जितम् ।
विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥

इत्यादिवचनशतेभ्यः विभक्तजस्य पितृधनग्राहित्वं प्रतीयते । एतादृशं संसृष्टपुत्रस्य पितृधनप्रापकं वचनमेकमपि न प्रदृश्यते।