पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६७

पुटमेतत् सुपुष्टितम्
436
श्रीसरस्वतीविलासे

नन्वेवं विभक्तस्य पितृधनस्वामित्वं वाचनिकं स्यादिति पूर्वोक्तं विरुध्येत इति चेन्मैवं । अत्र विभागो वाचनिकः । 'विभागे धर्मवृद्धिस्स्यात्' इत्यादिवचनाद्धर्मवृद्धिकामानां विभागः कार्य इति विभागस्य वाचनिकत्वप्रतीतेः । अतो विभक्तजस्य स्वामित्वं नैयायिकं; तथाहि-- विभक्तस्य पितृद्रव्यस्वीकारसमये इतरे विभक्ता भ्रातरः तद्द्रव्यं सममंशं स्वयमपि यदि गृह्णीयुः तदा विभक्तजस्याल्पीयानेव विभागस्स्यादिति विषमविभागस्स्यात् । तद्दोषपरिजिहीर्षया यदि ते सर्वे विभक्तजेन सार्धं पुनर्विभागं कुर्यस्तदा पूर्वविभागस्य पितृकृतस्यानर्थक्यं स्यात् । भ्रातरस्संसृष्टांशमवयुत्य संसृष्टिनो दत्वा पितृद्रव्यमेव गृह्णीयुरिति । अतो युक्तं संसृष्टिनामसंसृष्टिनां पुत्राणां पितृद्रव्ये तुल्यमेव स्वाम्यमिति । एतदेवाभिप्रेत्याह भारुचिः-- संसृष्टानामसंसृष्टानां पुत्राणां पितृकृतर्णापाकरणं तुल्यतया न्याय्यमिति पित्रार्जितद्रव्यस्याधिक्ये लोभाद्विभागापेक्षायामप्यपचयभारसहिष्णुत्वाभावात् । अपचये सत्यप्रवृत्तेः विभागो नास्ति । किंतु विभक्तजस्यैव पितृद्रव्यमिति पितृधनग्रहणे मनुवचनं ज्ञापकमित्याहुः । यथाऽऽह मनुः--

संसृष्टास्तेन ये वा स्युर्विभजेत स तैस्सह ।

अस्यार्थः-- ये च विभक्ताः पित्रा सह संसृष्टास्तैत्सार्धं पितुरूर्ध्वं विभक्तजो विभजेत् । असंसृष्टैस्तु भ्रातृभिस्सह विभक्तस्य न विभाग इति तात्पर्यार्थ इति । यत्तु मनुनैवोक्तं-- संसृष्टिविभागं प्रक्रम्य--

एषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥