पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७०

पुटमेतत् सुपुष्टितम्
439
व्यवहारकाण्डः

दपाकरोति भागं तस्मै न प्रयच्छति स भागान्मुक्तः एनं नेतारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति । अथास्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषमन्तरेणैव साधारणद्रव्यापहारे दोषश्श्रुत इत्याह । अत्र भारुच्यादिमतमेव सम्यक् । मनुस्मृतिश्रुत्योर्भागमात्रप्रदानविषयत्वादवलुप्तविभागविषयत्वादिति । यत्तूक्तं कात्यायनेन--

विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् ।
हृतं लब्धं च यन्नष्टं प्रागुक्तं च पुनर्भजेत् ॥

मिथोऽपहृतमित्यादिना प्रागुक्तस्यापि पुनरुपादानं दार्ढ्यार्थं । तथा च दुर्विभक्तं मिथोऽपहृतमन्योन्यापहृतं नष्टं दुर्लब्धं च समतां नयेदित्यर्थः ।

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् ।
पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः ॥

इति । दुर्विभक्तं शास्त्रोक्तप्रकारमन्तरेण विषमतया विभक्तं । नष्टं तु निक्षेपादिना नष्टं पश्चाल्लब्धं । दुर्ल(भं)ब्धं तु असाध्यजनस्थितं ऋणादिकं । एवमन्यापहृतदुर्विभक्तनष्टमिथोपहृतदुर्लब्धानां विभागानन्तरं जायमानानां भ्रातृभिस्समांशेनैव विभागः कर्तव्य इति शास्त्रमर्यादा । अथ विभागसन्देहे निर्णयप्रकारमाह नारदः--

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च ।
विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् ॥

बृहस्पतिः--

पृथगायव्ययधनाः कुसीदश्च परस्परम् ।