पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७३

पुटमेतत् सुपुष्टितम्
442
श्रीसरस्वतीविलासे

लेख्यग्रहणं साक्षिणामुपलक्षणं । केचिदाहुः-- अत्र विभागनिह्नवे लेख्य(लिखित)साक्षिभ्यां तुल्यबलत्वं लिङ्गानामप्यवगन्तव्यं । अत एवाहैतद्व्याख्याने चन्द्रिकाकारः-- प्रवर्तन्ते-- व्यक्तास्समस्ता इति शेष इति । तन्न । परस्परकर्तृकसाक्षित्वप्रातिभाव्यादीनां ज्ञापकहेतुभ्यो विलक्षणत्वेनोक्तत्वात् । साक्षिग्रहणेनैव ज्ञात्यादीनां तटस्थसाक्षिणामपि साक्षित्वेऽपि विभागनिर्णये तेषां प्राबल्यज्ञापनार्थं पृथग्ग्रहणमिति विज्ञानेशः । साक्षिग्रहणं कृतसाक्षिपरमिति केचित् । बृहस्पतिः--

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद्विभक्तानां तदेव स्याद्गृहेगृहे ॥

एवं च पृथक्पृथग्वैश्वदेवादिकार्यप्रवर्तनं अविभक्तेष्वविद्यमानं विभक्तत्वमवगमयतीति विभागसन्देहनिर्णययुक्तिर्युक्तेत्यनवद्यमिति चन्द्रिकाकारः । अस्यायमाशयः-- पितृदेवद्विजार्चनमित्यत्र पितृशब्देन प्रत्याब्दिकमुच्यते । अमावास्याश्राद्धादीनामविभक्तानां मध्ये इतराभ्यनुज्ञया इतरस्याधिकारात् । अत्र देवशब्देन तत्संनियोगशिष्टं वैश्वदेवश्राद्धमुच्यते । न तु देवयज्ञादिकं, तस्याविभक्तानामपि विहितत्वात् ।

अविभक्तैश्च कर्तव्या वैश्वदेवादिकाः क्रियाः ।

इति स्मरणादिति । एतच्च वैवाहिकाग्निर्येषां मते अलौकिकः । लौकिकत्वपक्षे तु विभागानन्तरमेव अग्निहोत्रवैश्वदेवादिकाः कार्या इति तेषां कारकहेतवो वैश्वदेवादिकाः । उभयेषां प्रत्याब्दिकं कारहेतुरिति । अत्र केचिदाहुः-- चन्द्रिकाकारेण श्रेष्ठनिर्णायकप्रमाणाभावे लिङ्गानां प्रवेश इत्युक्तं त(त्तु)च्च लिखितसाक्षिसद्भावे ताभ्यां निर्णय औत्सर्गिक इति तेषां प्राथम्य(प्राधान्य)मुक्तं ।