पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७५

पुटमेतत् सुपुष्टितम्
444
श्रीसरस्वतीविलासे

 इति तत्वानुसरणेनैव न्यायः कर्तव्य इति चेन्मैवं । अत्र छलमतत्वात्मकं विवक्षितं । न तु तत्वात्मकं । तत्वात्मकछलावलम्बनेन तु व्यवहारनिर्णयदर्शनात् । तथाहि--

भूतच्छलानुरोधेन द्विगतिस्समुदाहृतः ।

इति व्यवहारस्य छलावलम्बनमप्येका गतिर्युक्ता । अन्यथा--

धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।
चतुष्पाद्व्यवहारोऽयमुत्तरः पूर्वबाधकः ॥

इति स्मृत्या उत्तरेषां व्यवहारचरित्रराजशासनानां धर्मबाधकत्वं छलानुसरणनिबन्धनं निरुन्ध्यात्। एतस्य छलानुसरणस्य तात्विकत्वे स्मृतिकारणामप्रामाणिकत्वं स्यात् । अत एव छलं निरस्य भूतेनेत्यत्र छलग्रहणमतत्वात्मकछलविषयमिति मन्तव्यं । अत एव चन्द्रिकाकारविज्ञानयोगिभ्यां--

निह्नवे भावितो दद्यादेकदेशविभावितः

इति वचनव्याख्यानावसरे छलानुसरणमत्र कार्यमित्युक्तं । विज्ञानयोगिनापि--

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।

इत्यत्र अवष्टम्भविषये दिव्यं नास्तीति वदता; पश्यतोऽब्रुवतो भूमेरित्यत्रापि तु फलहानिरिति वदता; छलानुसारेण निर्णयोऽङ्गीकृत इति दिङ्मात्रमुदाहृतं । तत्र केचिदाहुः-- दशवर्षपर्यन्तं पृथक्क्रियाकरणं पृथग्धर्मानुष्ठानं च रिक्थक्रयसंविभागपरिग्रहाद्यन्यतमत्वाभावात्स्वत्वहेतुत्वाभावात् पृथक्क्रियस्य पृथग्धर्मस्य पुरुषस्य कथं स्वत्वापादकमितिचेत् उच्यते--

विभक्ताःपैतृकाद्धनादिति वचनादवगम्यते स्वत्वं । तथा हि--