पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७८

पुटमेतत् सुपुष्टितम्
447
व्यवहारकाण्डः

वसेयुर्दशवर्षाणि पृथग्धर्माः पृथक्क्रियाः ।
विभक्ता भ्रातरस्तेऽपि विज्ञेयाः पैतृकाद्धनात् ॥

इत्यनेन द्रव्याभावेऽत्यन्तनिस्स्वानां धर्मविभागः कर्तव्यः । 'विभागे धर्मवृद्धिस्यात्' इत्यादि स्मृतिभ्यः । अतश्च पितृद्रव्याविरोधेन दशवर्षपर्यन्तं ये पृथग्धर्माः पृथक्क्रियाः ते विभक्ता एव । धर्मविभागस्य इतराम्यनुज्ञामन्तरेणाप्पेकेनैव स्वीकर्तुं शक्यत्वादित्युक्तं भारुचिना । एतादृशस्य विभागशब्दवाच्यत्वमप्यस्तीत्युक्तं प्रकरणादावेव । पितृद्रव्याविरोधेनार्जिते द्रव्ये दायादानामनधिकार इत्युक्तं । अतश्च पितृद्रव्याविरोधेनार्जितस्य सद्भावेऽपि तस्याविभाज्यत्वात् धर्मविभागात्मक एवात्र विभागोऽवतिष्ठत इत्यवगन्तव्यम् । पैतृकाद्धनादिति ल्यब्लोपे पञ्चमी ।

 अत्रेदं भारुचेर्मततत्वं-- "वसेयुर्दशवर्षाणि" इत्यत्र ल्यब्लोपे पञ्चम्याश्रयणात् पितृधनं विहाय ये दशवर्षपर्यन्तं धर्मविभागवन्तः तेषां तदूर्ध्वं मैत्रादिना यल्लब्धं तदेवाविभाज्यं दशवर्षमध्ये लब्धं मैत्रादिकं विभाज्यमेव । अविभागदशायां स्वयमार्जितं मैत्रादिकं विभाज्यमिति कैमुतिकन्यायसिद्धम् । यथाऽऽह विष्णुः--

 अपित्र्यं गार्भं धार्मं मैत्रं वैद्यमाकस्मिकमादशाब्दं प्रविभाज्यमत ऊर्ध्वं सर्वमविभाज्यम् ।

इति । अत्राह भारुचिः-- अपित्र्यं-- अविद्यमानपितृद्रव्यं । एतत्र्रितयविशेषणं । गार्भं-- स्त्रीधनं । धार्मं-- इष्टापूर्तादिकं । मैत्रं-मित्रसकाशाल्लब्धं । वैद्यं-- विद्यातो लब्धं । आकस्मिकं-- अकस्माल्लब्धं निध्यादिकं । प्रतिग्रहादिना लब्धं । एतत्पञ्च