पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७९

पुटमेतत् सुपुष्टितम्
448
श्रीसरस्वतीविलासे

विधद्रव्यमध्ये उत्तरत्रयं धर्मविभागाभावेऽविभक्तत्वात् विभाज्यं । दशवर्षपर्यन्तावस्थितिरूपधर्मविभागसद्भावेऽप्यविभाज्यमेव इति । अयमाशयः-- आदशवर्षमिति धर्मविभागोपलक्षणमिति । न चैतद्वचनं--

सन्धिश्च परिवृत्तिश्च विभागश्च समा अपि ।
आदशाहान्निवर्तन्ते विषमा नववत्सरात् ॥

इति विषमविभागस्य नववर्षपर्यन्तं निवृत्तिप्रतिपादक भरद्वाजवचनानुसारेण नववर्षादुपरि विषमविभागो न परावर्तत इत्येवम्परमिति वाच्यम् । एतद्वचनस्य तत्परत्वाभावात् । तथाहि-- एतद्वचनं विभागसन्देहं प्रक्रम्योक्तं । वचनसामर्थ्यं चापि तथैव प्रतिभाति ।

वसेयुर्दशवर्षाणि पृथग्धर्माः पृथक्क्रियाः ।
विभक्ता भ्रातरः...............॥

इति । पृथग्धर्मकत्वपृथक्क्रियत्वलक्षणविशेषणविशिष्टदशवर्षपर्यन्तं वसतिर्विभागहेतुः प्रतिपादितः । विषमविभागप्रतिपादनपरत्वे व्याहन्येत । विभक्ता भ्रातर इति लिङ्गसामर्थ्याल्लिङ्गी विभागो व्याहन्येत । विभागलिङ्गानां परस्वत्वापादकत्वायोगात् । छलानुसारेणापि व्यवहारस्य न्याय्यत्वादिति तत्र ल्यब्लोपे पञ्चम्येव समाश्रयणीयेति । तन्न; विभागलिङ्गानां कारकरूपहेतुत्वाद्विभागोत्पादने सामर्थ्यस्योक्तेः । स्वत्वस्यापि पुत्राणां जन्मनैव सिद्धत्वात् । तत्वात्मकछलानुसरणस्य न्याय्यत्वेनोदाहृतत्वात् ।

 तदयमत्र निष्कर्षः-- विभागसंदेहे क्वचित् लिखितेन निर्णयः । क्वचित्साक्षिभिः क्वचित् ज्ञातिभिः क्वचिद्बन्धुभिः क्वचिन्मिश्रि