पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८

पुटमेतत् सुपुष्टितम्
17
व्यवहारकाण्डः

स्वधर्माच्चलितानां कृत्यानुसारेण दण्डः.

कुलानि जातीः श्रेणीश्च गणान् जनपदानि च ।
स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥

कुलानि ब्राह्मणादीनां, जातयो मूर्धावसिक्तादयः, श्रेणयः ताम्बूलिकादीनां, गणः पाषण्डिनां, जनपदा नापितकारुकादयः, विनीय दण्डयित्वा । अत एव बृहस्पतिः--

धर्मशास्त्रानुसारेण सामात्यस्सपुरोहितः ।
व्यवहारान्नृपः पश्येत्प्रजासंरक्षणाय च
क्रोधलोभविहीनस्तु सत्यवादी जितेन्द्रियः ॥ इति ॥

धर्मशास्त्रानुसारेणेत्यनेन क्रोधलोभविसर्जनस्य सिद्धत्वात्क्रोधलोभविसर्जनं राज्ञस्स्वभावगुण इति प्रदर्शितम् । अत एव याज्ञवल्क्यः--

महोत्साहस्स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतस्सत्वसंपन्नः कुलीनस्सत्यवाक् शुचिः ॥
अदीर्घसूत्रस्स्मृतिमान्नक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञश्शूरो रहस्यवित् ॥
स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विदितस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ इति ॥

उत्साहः पौरुषं महानुत्साहो यस्य स महोत्साहः । स्थूललक्षः स्थूलमनेकद्रव्यं ददातीति स्थूललक्षो बहुप्रदः, कृतज्ञः कृतमुपकारमपकारं वा जानाति स्मरतीति कृतज्ञः । वृद्धानां

 S.Vilasa
3