अथ साहसाख्यस्य पदस्य विधिरुच्यते.
पूर्वं त्रयोदशसु विवादपदेषु देयादेयविचारः कृतः ।
यथाऽह विष्णुः--
व्यवहारो द्विरुत्थानः ।
इति । द्विप्रकारेण-- देयमूलतया दण्डमूलतयोत्थानं । द्विरुत्थान इति व्यवहारस्य कारणद्वयं कथितं । तथा च गौतमसूत्रं-- द्विरुत्थानो द्विगतिरिति । व्यवहार इत्यनुषज्यते । तत्र निबन्धन कारेण ऋणादानादिदायविभागान्तानां देयनिबन्धनता साहसादिपञ्चकस्य दण्डनिबन्धनत्वमिति द्विरुत्थानतेत्यर्थ इति । यद्यपि मन्वादिभिः--
तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ।
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयौ विवादःस्वामिपालयोः ।
सीमाविवादधर्मश्च पारुष्ये दाण्डवाचिके ।
स्तेयंच साहसं चैव स्त्रीसंग्रहणमेव च ।
स्त्रीषु धर्मो विभागश्च द्यूतमाह्वय एव च ।
पदान्यष्टादशैतानि व्यवहारे विदुर्बुधाः ॥
इत्येवमुक्तप्रकारेण क्रमिकाणि व्यवहारपदान्युक्तानि । अत्र वाक्पारुष्य दण्डपारुष्य स्त्रीसंग्रहाणानन्तरं दायविभागः क्रमिकः
450