पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८२

पुटमेतत् सुपुष्टितम्
451
व्यवहारकाण्डः

निबन्धनकारेण तु-- त्रयोदशविवादपदं दाय इत्युक्तं । उभयोर्महान् विरोधः । स परिह्रियते-- तथोक्तं नारदेन--

ऋणादानं ह्युपनिधिः संभूयोत्थानमेव च ।
दत्तस्य पुनरादानं अशुश्रूषाऽभ्युपेत्य च ।
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासंप्रदानं च प्रीत्यानुशय एव च ।
समयस्यानपाकर्म विवादः क्षेत्रजस्तथा ।
स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ।
वाक्पारुष्यं तथा प्रोक्तं दण्डपारुष्यमेव च ।
द्यूतं प्रकीर्णकं चैवं .. .. ..............

इति । नारदवचनानुसारि निबन्धनकारवचनं । अतश्च तद्वाख्येयस्यापि गौतमसूत्रस्य नारदवचनानुसारित्वमेव । एतदनुसारणैवात्माभिरप्युक्ता विवादपदानां संगतिः । अतश्च ऋणादानादि दायविभागान्तानां देयनिबन्धनत्वेन प्रतिपादनं साहसादिपञ्चकस्य दण्डनिबन्धनत्वमिति सूचयितुं अथ साहसमित्यथशब्दः प्रयुक्तः । अतश्च देयप्रतिपादनानन्तरं दण्डप्रतिपादनस्यावसर इति संगतिः । अत्रापि वाक्पारुष्यदण्डपारुष्याणां परस्परं भेदाभावेऽपि दण्डाल्पत्वमहत्वार्थं पृथग्ग्रहणं । अतश्च प्रकरणत्रयस्यापि संगतिरुक्तैव । अनेन विज्ञानयोगिना यदुक्तं विवादपदानां परस्परं संगतिर्नास्तीति; तत्परास्तं वेदितव्यं । अत्र कात्यायनः --

सहसा यत्कृतं कर्म तत्साहसमुदाहृतम् ।

इति । एतदेवाह नारदः--

सहसा क्रियते कर्म यत्किञ्चिद्बलदर्पितैः ।