पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८६

पुटमेतत् सुपुष्टितम्
455
व्यवहारकाण्डः

वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥

अपराधं ज्ञात्वा तदनुसारेण दण्ड्येषु दण्डार्हेषु दण्डो योज्य इति।

 यथाऽऽह विष्णुः-- उत्तममध्यमाधमद्रव्याणां हरणे मूल्यानुसारतो दण्ड इति । अस्यार्थो मनुना स्पष्टीकृतः । यथा--

हिरण्यरत्नकौशेयस्त्रीपुंसा गजवाजिभिः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम् ॥

इति । मध्यमद्रव्यं तु--

वासः कौशयवर्जं च गोवर्जं पशवस्तथा ।
हिरण्यवर्जं लोहं च मध्यमं व्रीहयस्तथा ॥

व्रीहिशब्दो यवगोधूमानामुपलक्षकः ।

मुद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ।
शिबिरान्नं कृतान्नं च क्षुद्रद्रव्यमुदाहृतम् ॥

इति । एवं त्रिषु द्रव्येषु प्रथममध्यमाधमसाहसवद्दण्डनीय इत्यौत्सर्गिकोऽर्थः । स एवाह मनुः--

साहसेषु य एवोक्तः त्रिषु दण्डो मनीषिभिः ।
स एव दण्डःस्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥

इति । साहसस्तेययोर्दण्डैक्यादेकमेव पदं; तथाऽपि तन्मते पृथगभिधानाद्दण्डातिदेशो न विरुद्ध इति रहस्यं । विष्णुस्तु जातिप्रग्रहेणापि विशेषमाह ।

 उक्तो दण्डः शूद्राद्वैश्यक्षत्रियब्राह्मणानां विदुषां स्तेये द्विगुणोत्तराणि किल्विषाणीति ।

अयमर्थः-- यस्मिन्नपहारे यो दण्डः उक्तः स शूद्रकर्तृके अपहार्यद्रव्यस्य अष्टगुण आपादनीयः । वैश्यकर्तृके अपहारे षोडश गुणः । क्षत्रियकर्तृके अपहारे द्वात्रिंशद्गणः । ब्राह्मण