पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८७

पुटमेतत् सुपुष्टितम्
456
श्रीसरस्वतीविलासे

कर्तृके अपहारे चतुष्षष्टिगुणो दण्ड आपादनीयः । एवं विट्छूद्रादिकर्तृकेऽपहारे दण्ड ऊहनीयः

ब्राह्मणे शतगुणो वा पूर्णं वाऽपि शतं भवेत् ।

इति विष्णुस्मरणात् । निकृष्टेषु द्विगुणं कल्पयेत् "निकृष्टे द्विगुणं कल्पयेत्" इति तेनैवोक्तत्वात् । निकृष्टो जात्या आचारेण धनेन वेति निबन्धनकारः । न च दिव्यमातृकायां द्विगुणार्थे यथाभिहिता समयक्रिया वैश्यस्य त्रिगुणार्थे राजन्यस्य चतुर्गुणार्थे ब्राह्मणस्येति विष्णुवचने शूद्रवैश्यक्षत्रियब्राह्मणानामेकद्वित्रिचतुस्संख्यया दिव्यक्रियायां तारतम्यमुक्तः अत्रापि दण्डकल्पनमष्टमांशषोडशांशचतुर्विंशद्वाविंशकल्पनया भाव्यमिति वाच्यं । दण्डविधायकदिव्यविधायकशास्त्रयोर्वेदमूलत्वेन न्यायमूलत्वाभावात् वाचनिकमिदं तारतम्यं । अत्र विशेषमाह विष्णुः-- 'दशकुम्भीधान्यहरणे एकादशगुणं दाप्य' इति । विंशतिद्रोणकं कुम्भीखारीपर्याय इति चन्द्रिकाकारः । तद्द्विगुणापहारे एकादशगुणं तद्धनं दापयित्वा अङ्गच्छेदनवधरूपदण्डा योज्या यथायोगं । अत्र मनुः विशेषमाह--

पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
रत्नानां चैव सर्वेषां हरणे वधमर्हति ॥

कुलीनानां तु दण्डान्तरमाह स एव--

पुरुषं हरतो दण्ड उक्त उत्तमसाहसः ।
स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥

इति । क्षुद्रद्रव्याणां तु माषान्यूनमूल्यानां मूल्यात्पञ्चगुणो दण्डः । यथाऽऽह नारदः--

काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च ।