पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९

पुटमेतत् सुपुष्टितम्
18
श्रीसरस्वतीविलासे

सेवको वृद्धसेवकः । विनीतो गर्वरहितः । सत्वसंपन्नः परैः दुर्धर्षः । कुलीनो महाकुले जातः । सत्यवाक् प्राणाऽत्ययेऽपि सत्यं वदतीति सत्यवाक् । शुचिर्बाह्याभ्यन्तरशौचवान् । अदीर्घसूत्रः शीघ्रकारी । स्मृतिमान् अधीतवेदधारणशीलः । अक्षुद्रो गम्भीराऽशयः । अपरुषः परदोषानाविष्करणशीलः । धार्मिकः नित्यनैमित्तिक कर्मानुष्ठानपरः । वर्णाश्रमधर्मान्वितः इति विज्ञानेश्वरः । अव्यसनः अष्टादशव्यसनशून्यः । तथा च मनुः-

मृगयाऽक्षो दिवास्वापः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथा त्यागः कामजो दशको गणः ॥

मृगयादीनां काममूलकत्वात्कामजं गणदशकमिति वाक्यार्थः क्रोधजं गणाष्टकमित्याह स एव--

पैशुन्यं साहसं द्रोहमीर्ष्याऽसूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणाष्टकः ॥ इति ॥

अष्टसङ्ख्यासङ्घघातः । एतस्मिन् वर्गद्वये काममूलकानां दशानां पानाक्षमृगयाः कष्टतमाः इत्याह स एव--

पानमक्षाःस्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत्कष्टतमं विन्द्याच्चतुष्कं कामजे गणे ॥

अत्र यथाक्रममिति कामक्रोधावलम्बनेनैव क्रमविवक्षा न तु पानाक्षस्त्रीमृगयाणां परस्परवैषम्यविवक्षया क्रमपदप्रयोगः । तेषां पानाक्षस्त्रीमृगयारूपाणां कष्टतमत्वेनैव तुल्यतया चतु