पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९७

पुटमेतत् सुपुष्टितम्
466
श्रीसरस्वतीविलासे

राज्ञा सभ्यैस्सभां नीत्वा स्वयमन्विष्य तत्क्षणात् ।
यद्ब्रूयात्सहजं वाक्यं तत्कर्तव्यं प्रयत्नतः ॥
विवादे साक्षिणामत्र न कुर्वीत परिग्रहम् ।
वर्तनादभिशस्तस्य न दिव्यं दातु मर्हति ॥

चिह्नैरेव अत्र राज्ञा निर्णेतव्यं । न दिव्यं न च साक्षिणः इति वदतश्चन्द्रिकाकारस्यायमाशयः-- न च सर्वदा अस्मिन्विषये साक्षिदिव्ययोरनवतार इति । किन्तु राज्ञा सभ्यैश्च निर्णये कृते साक्षिदिव्ययोरपेक्षा नास्ति । तदा तयोरनवतारः । यदा तु कान्ता वृषस्यन्ती कपटस्वयंकृतकुचतटनखक्षताधरदन्तक्षतादिभिः विप्रलम्भयति तदा साक्षिदिव्ययोरवकाश इति ॥ विधवागमने विशेषमाह याज्ञवल्क्यः--

स्वच्छन्दविधवागामी विकृष्टे नाभिधावकः ।
अकारणेन विक्रोष्टा चण्डालश्चोत्तमां स्पृशन् ॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन् अयोग्यो योग्यकर्मकृत् ॥
वृषशूद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥
पितापुत्रस्वसृर्भातृदम्पत्याचार्यशिष्यकाः ।
एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥

नियोगं विना स्वेच्छया विधवां गच्छतीति स्वच्छन्दविधवागामी । स्वकुलैश्चोरादिभयाद्विक्रुष्टे आक्रोशे तन्निवारणसमर्थोऽपि नाभिधावतीति क्रुष्टे नाभिधावकः । अयुक्तं शपथं करोतीत्ययुक्तशपथकृत् । पुंस्त्वस्य प्रजाजननशक्तेः विनाशकः । । वृक्षक्षुद्रपशूनामिति पाठे हिङ्ग्वाद्यौषधप्रयोगेण वृक्षादेः फल