पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९८

पुटमेतत् सुपुष्टितम्
467
व्यवहारकाण्डः

प्रसूनानां पातयितेति विज्ञानेशः । एते पणशतं दण्डार्हाः प्रत्येकमिति । यत्तु बृहस्पतिनोक्तम्--

सहसा कामयेद्यस्तु धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद्गर्धभेन तु ॥

तत्तु ब्राह्मणीं कामयमानस्य ब्राह्मणेतरस्य विषये । कामयेत् परस्त्रियमिति शेषः । मनुस्तु विशेषमाह--

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विनिवासयेत् ।

 ब्राह्मणं पुनर्महत्यपराधेऽपि न घातयेत् । अपि तु ललाटेऽङ्कयित्वा स्वराष्ट्रान्निर्विवासयेत् । अङ्कनं च भगाकारेण कार्यं । तथा च वृद्धवसिष्ठः--

सुरापाने ध्वजाङ्कनं स्तेये च श्वपदाङ्कनं ।
ब्रह्महत्यायां गर्दभाङ्कनं गुरुतल्पगमने भगाङ्कनम् ॥

इति । मनुस्तु विशेषमाह--

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥

 अशिराः पुमान्-- कबन्धः । शेषं सुगमं । राजपत्नीगमने विशेषमाह याज्ञवल्क्यः--

क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास्सकटाग्निना ॥

 कटैर्वीरणतृणमयैः घासनिर्मितैर्दामभिः वेष्टयित्वा दग्धव्या इत्यर्थः । क्षेत्रादेर्दाहकानां मरणदण्डप्रसङ्गात् विशेषार्थोऽयमारम्भः । नारदस्तु परदारगमनस्य त्रैविध्यमुक्त्वा दण्डविशेषमाह ।

त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् ।
अदेशकालसम्भाषा निर्जने च परस्त्रियाम् ॥