पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५००

पुटमेतत् सुपुष्टितम्
469
व्यवहारकाण्डः

सम्भाषणं निषेध्यं तत्र प्रवर्तमाना स्त्री शतपणं दण्ड्या । पुरुषोऽप्येवं निषिद्धस्सन् प्रवर्तमानो द्विशतं दण्ड्य इति ।

 विष्णुस्तु विशेषमाह-- 'प्रतिषिद्धे प्रवर्तमानयोः स्त्रीपुंसयोस्सङ्ग्रहणे वर्णानुसारेण दण्ड' इति । एनच्चावरोधस्त्रीविषयमिति भारुचिः । जातिव्यवस्थया दण्डमाह विष्णुः-- 'गुप्तपरदाराभिगमने साशीतिपणसाहस्रं' इति । एतच्च गुरुसखीभार्यादिव्यतिरिक्तविषयं द्रष्टव्यं । यथा--

माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्रीभगिनी तत्सखी स्नुषा ॥
दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसामन्यतमां गच्छन्गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥

इति नारदस्मृतेः-- अत्र विशेषमाह याज्ञवल्क्यः--

सजात्यामुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥

इति । अयमर्थः-- चतुर्णामपि वर्णानां बलात्कारेण सजातिगुप्तपरदाराभिमर्शने साशीतिपणसाहस्रं दण्डनीयः । यदा त्वानुलोम्येन हीनवर्णस्त्रियं गुप्तामभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनस्सवर्णामगुप्तामानुलोम्येन गुप्तां तां व्रजति । यथाऽऽह मनुः--

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् ।
शतानि पञ्च दण्ड्यस्स्यादिच्छन्त्या सह सङ्गतः ॥
सहस्रं ब्राह्मणो दण्डं दायो गुप्ते तु ते व्रजत् ।